________________
अपापेति नामासीत् भगवतस्तत्र कालगतवात् देवैः पापेति उक्तं) (अपापायां मध्यमायां) महसेनवने जगाम तदा तत्र सोमिलार्यो नाम ब्राह्मणः स यज्ञं यष्टुमुद्यतः । तत्र चैकादशोपाध्यायाः खल्वागताः । तेषां संदेहाः क्रमेण १ जीवः २ कर्म ३ तज्जीवतच्छरीरे ४ पंचभूतानि सन्ति न वा ५ यो यादृशः स तादृशः ६ बंधः ७ देवः ८ नैरयिकः (नारक) ९ पुण्यं १० परलोकः ११ मोक्षः इति । ते चैकादेशापि द्विजा एकैकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति । अत्रान्तरे वने च भगवन्नमस्यार्थमागच्छतः सुरासुरान्विलोक्य ते चिन्तयन्ति अहो यज्ञस्य महिमा. यदेते सुराः साक्षात्समागताः । अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः ततोऽमी सर्वज्ञं वंदितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् । अहो मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति । दुःश्रवम् एतत्कर्णकटु कथं नाम श्रूयते । किं च कदाचित्कोऽपि मूर्खः केनचिद्भूर्तेन वच्यते । अनेन तु सुरा अपि वंचिताः । यदेवं यज्ञमण्डपं मा सर्वज्ञं च विहाय तत्समीपं गच्छन्ति । 'अहो सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमलाकरवद्रेकाः मक्षिका चन्दनं यथा ।।१।। करभा इव सवृक्षान् क्षीरान्नं शूकरा इव । अर्कस्यालोकवत् घूकास्त्यक्त्वा यागं प्रयांति यत् ।।२।।' अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते । अनुरूप एव संयोगः । तथापि नाहं एतस्य सर्वज्ञाटोपं सहे । यतः 'व्योन्मि सूर्यद्वयं किं स्यात् गुहायां केसरिद्वयम् । प्रत्याकारे च । खड्गौ द्वौ किं सर्वज्ञावहं स च ।।१।। ततो भगवन्तं वंदित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ । भो ! भो ! दृष्टः स सर्वज्ञः ? कीदृशरूप: ? किंस्वरूप: ? इति जनैस्तु 'यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपरार्ध्य गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात्।।१।।' इत्याद्युक्ते सति स दध्यौ । 'नूनमेष महाधूर्ता मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ।।२।। मया हि येन वादीन्द्रास्तूष्णी संस्थापिताः समे । गेहे शूरतरः कोऽसौ सर्वज्ञो मत्पुरोभवेत् ? ।।३।।' देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रश्रजालैर्हतप्रतापं कृत्वा क्षणमात्रेण तस्य सर्वज्ञवादं निःशेषमहं नाशयामि । इत्युक्त्वा प्राप्तो भगवत्समीपं दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुत्रिंशदतिशयनिधिं सशंकितः पुरतोऽवस्थितः । आभाषितो सर्वज्ञेन जिनेन हे इंद्रभूते ! गोतम स्वागतमिति जिनेनोक्ते स चिन्तयति अहो नामापि मे विजानाति अथवा सर्वज्ञप्रसिद्धोऽहं को सां न जानाति यदि मे हृद्गतं संशयं जानीयात् अथवाऽपनयेत् ततो मे विस्मयो भवेद् इति चिंतयन् पुनरपि भगवता भणित:- . : 'किमने अस्थि जीवो, उयाहु नत्थित्ति संसओ तुज्जा ।
बेयपयाण य अत्थं न याणसी तेसिमो अत्थो ।' हे गौतम किं मन्यसे अस्ति जीव उत नास्तीति । नन्वयमनुचित एव संशयो यतोऽयं संशयस्तव . विरुद्धवेदपदश्रुतिनिबन्धन इति । तान्यमूनि वेदपदानि 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यादि.' तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च । एतेषां च वेदपदानामयमों भवतश्चेतसि विपरिवर्तते । विज्ञानमेव घनानदन्दादिरूपत्वात् विज्ञानघनः स एव एतेभ्योऽध्यक्षतः परिच्छिद्यमानस्वरूपेभ्योः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः
समुत्थाय उत्पद्य पुनस्तान्येवानुविश्यति तान्येव भूतानि अनुसृत्य विनश्यति तत्रैवाव्यक्तरूपयता ( २५२i
n k स्याद्वादमञ्जरी