________________
संलीनो भवतीति भावः । न प्रेत्य संज्ञास्ति । मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञास्ति न परलोकसंज्ञास्तीति भावः । ततः कुतो जीवः युक्त्योपपत्रश्चायमर्थ इति ते मतिः । यतो नासौ प्रत्यक्षेण परिगृह्यते अतीन्द्रियत्वात् । नाप्यनुमानेन यतस्तल्लिङ्गलिङ्गिपूर्वकञ्च । न चात्र लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो लिङ्गिनोऽतीन्द्रियत्वात् । नाप्यनुमानगम्योऽनवस्थाप्रसक्तेस्तदपि हि लिंङ्गलिंङ्गिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्ता, इत्यनवस्थानुषङ्गः । माप्यागमगम्यः परस्परविरुद्धार्थतया तथागमानां प्रमाणत्वाभावात् । तथाहि केचिदेवमाहुः ‘एतावानेन लोकोऽयं यावदिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः ' ।।१।। इत्यादि । अपरे प्राहुर्न रूपमीक्षवः पुद्गला इत्यादि पुद्गले रूपं निषेधयन्ति । अन्तर्भूत आत्मेत्यर्थः । अन्ये पुनरेवम् "अकर्ता निर्गुणो भोक्ता" इत्यादि । अपरे एवम् “स वै अयमात्मा ज्ञानमय' इत्यादि । न चैते सर्व एव प्रमाणम् । परस्परविरोधात् । व्यर्थाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् । आत्मानं विद्मः किमस्ति नास्तीत्ययं तवाभिप्रायः । तत्र वेदपदानां चार्थं न जानासि । चशब्दाधुक्तिद्वयं च । तथाहि वेदपदानां अयमर्थः । विज्ञानघन एवेति ज्ञानोपयोगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्याय: संपातात्मक़त्वात् वा विज्ञानघन एवशब्दोऽवधारणे विज्ञानघनादनन्यघनत्वात् विज्ञानघन एव । एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथंचिदुत्पद्येति । घटविज्ञानपरिणतो हि आत्मा घटाद्भवति तद्विज्ञानक्षयोपशमनस्य तत्राक्षेपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्यात्वप्रसक्तेरेवं सर्वत्र भावनीयम् । तत उक्तं तेभ्यः समुत्थाय कथंचिदुत्पद्येति पुनस्तानेव भूतानि अनुविनश्यति । ते विवक्षितेषु भूतेषु व्यवहितेषु वा आत्मापि तद्विज्ञानधनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते । यदि वा सामान्यचैतन्यरूपतयाऽवतिष्ठत इति न प्रेत्य संज्ञास्ति न प्रावृतिकघटादिविज्ञानसंज्ञाऽवतिष्ठते । सांप्रतविज्ञानोपयोगनिनितत्वात् अथवा एवं व्याख्या विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतीत्येतन यत: प्रेत्य संज्ञास्ति परलोकसंज्ञास्ति । यदप्युक्तं नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धात्तर्नुणस्य ज्ञानस्य स्वसंवेदनप्रमाण सिद्धत्वात्तथाहि स्वसंविदिता एवावग्रहेहापायादय उदयन्ते लीयन्ते वा । ततस्तद्गुणस्य स्वसंविदितत्वात् सिद्धमात्मनः प्रत्यक्षत्वम् । अथ ब्रवीष्व भूतगुणाश्चैतन्यं । तथा वेदेप्युक्तम् 'एतेभ्यो भूतेभ्यस्समुत्थायेत्यादि' । ततः कथं ज्ञानस्य स्वसंविदितत्वे ते आत्मनः प्रत्यक्षत्वं, ज्ञानस्यात्मत्राणत्वाभावात् । तदयुक्तम् । भूतगुणत्वे सति पृथिव्याः काठिन्यस्यैव सर्वत्र चोपलम्भप्रसङ्गात् । न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं लोष्ठादौ मृतावस्थायां चानुपलम्भात् । अथ तत्रापि चैतन्यमस्ति । केवलं शक्तिरूपेण ततो नोपलभ्यते तदसम्यग् । विकल्पद्वयानतिक्रमात् । साहि शक्तिचैतन्याद्विलक्षणा उत चैतन्यमेव । यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति । न हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यं तथा चाहान्योऽपि 'रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः । चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् ।।१।।' अथ द्वितीय: पक्षस्तर्हि चैतन्यमेव तत्कथमनुपलम्भः । आवृतत्वादनुपलम्भ इति चेत्, तत्त्वावृत्तिरावरणं तञ्चावरणं किं, भूतानां विवक्षितपरिणामानामुत परिणामान्तर माहोस्विदन्यदेव भूतातिरिक्तं किंचित् । तत्र न तावद्विवक्षितपरिणामाभाव: एकान्ततुच्छरूपतया
स्याद्वादमञ्जरी
Muktak
१५३)