________________
तस्यावारकत्वायोगात् । अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्तिर्भावत्वे पृथिव्यादीनामन्यतमो भावो भवेत् 'पृथिव्यादीन्येव भूतानि तत्त्वमिति वचनात्' पृथिव्यादीनि च भूतानि चैतन्यस्य व्यंजकानि । नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् । अथ परिणामान्तरं, तदयुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवव्यंजकत्वस्योपपत्ते वारकत्वस्य । अथान्यदेव भूतातिरिक्तं किंचित् । तदतीवासमीचीनम् । भूतातिरिक्ताभ्युपगमे चत्वार्येव पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसंख्याव्याघातप्रसंगात् । अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा । न तावत्प्रत्येकमनुपलम्भात् । न हि प्रतिपरमाणुसंवेदनमुपलभ्यते । अपि च यदि प्रतिपरमाणुसंवेदनं भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं भित्रस्वभावमिति नैकरूपं भवेत् । अथ चैकरूपमुपलभ्यते, अहं पश्याम्यहं करोमीत्येवं सकलशरीराधिष्टितानेकस्वरूपतयानुभवात्, अथ समुदायस्य धर्मस्तदप्यसत्प्रत्येकमसत्समुदायेऽपि न भवति । यथा रेणुषु तैलं स्यादेतन्मद्याङ्गेषु प्रत्येक मदशक्तिरदृष्टापि समुदायेऽपि भवन्ती दृश्यते । तद्वच्चैतन्यमपि भविष्यति को दोषः । तदसम्यक् । प्रत्येकमपि मद्याङ्गेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् । तथाहि । दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पे च मनाक् विकलितोत्पादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते । ततः कथं समुदाये तद्भवितुमर्हति । मा प्रापत्सर्वस्य सर्वत्राभावप्रसक्तातिप्रसंगात् । किं च यदि चैतन्यं भूतधर्मत्वेन प्रतिपन्नं तन्नोऽवश्यमस्यानुरूपो धर्मः प्रतिपत्तव्यः । आनुरूप्याभावे जलकाठिन्ययोरिव परस्परधर्मधर्मभावोऽनुपात्तः । न च भूतानामनुरूपो धर्मी वैलक्षण्यात्तथाहि । चैतन्यं बोधस्वरूपममूर्तं च भूतानि तद्विलक्षणानि ततः कथमेषां परस्परं धर्मधर्मिभावः । नापि चैतन्यमिदं भूतानां कार्यमत्यंतविलक्षणतया कारणभावस्याप्ययोगात् । तथा चोक्तम् 'काठिन्यबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतनामगतद्रूपा सा कथं तत्फलं भवेत् ।।१।।' अपि च यदि भूताकार्य चैतन्यं तर्हि किं न सकलमपि जगत्प्राणिमयं भवति । परिणलिविशेषसद्भावाभावात् इति चेद्, ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान भवति । सोऽपि हि भूतमात्रनिमित्तक एव । ततः कथं तस्यापि क्वचित्कदाचिद्भावः । अन्यञ्च स किंरूपः परिणतिविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथाहि काष्ठादिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति । तदप्यसत् । व्यभिचारदर्शनात्, तथाहि-अविशिष्टेऽपि कठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचिञ्च कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च. मूर्छिता जायन्ते । किं च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्ते । तथाहि-गोमयाद्येकयोनिसंभविनोऽपि केचिनीलजन्तवोऽपरे पीतकायाः अन्ये विचित्रवर्णाः । संस्थानमप्येतेषां परस्परं विभिन्नम् । तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवणेसंस्थाना भवेयुः, न भवन्ति । तस्मादात्मान एव तत्तत्कर्मवशात्तथा तथोत्पद्यन्ते इति । स्यादेतत् आगच्छन् गच्छन् वा आत्मा नोपलभ्यते केवलं देहे सति संवेदनमुपलभामहे, देहाभावे च तस्यामेवावस्थायां न, तस्मात्रात्मा किन्तु संवेदनमात्रमेवैकं, तञ्च देहकार्य, देहे एव च समाश्रितं कुड्यचित्रवत् । नहि चित्रं कुड्यविरहितमवतिष्ठते नापि कुड्यान्तरं संक्रामति । आगमनं वा कुड्यान्तरात् किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते । एवं संवेदनमपि ।
तदप्यसत् आत्मा हि स्वरूपेणामूर्तः । आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयस्तदुक्तमन्यैरपि १५४/ AAAAAAAAAAAA स्याद्वादमञ्जरी