________________
'अन्तरा नवदेहेऽपि सूक्ष्मत्वानोपलभ्यते । निष्क्रामन् प्रविशन्वात्मा नाभावोऽनीक्षणादपि' । तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन्वा नोपलभ्यते लिंगतस्तूपलभ्यते । तथाहि कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्ध उपघातमुपलभ्य पलायनदर्शनात् । यश्च यद्विषयप्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकस्तथादर्शनात् । न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते । ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमजम् । तथा च केचित्पठन्ति 'शरीरग्रहरूपस्य नभसः सम्भवो यदा । जन्मादौ देहिनो दृष्टः किं न जन्मान्तरागतिः ।।' अथ गतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते । नैष दोषः । अनुमेयविषये प्रत्यक्षवृत्तेरभ्युपगमात् । परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवृत्तिरिष्यते । ततः कथं स एव दोषः । आह च 'अनुमयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता । अध्यक्षस्यानुमानस्य विषयो विषयो नहि ।।' अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते । न खलु यस्याग्निविषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत्तस्य यत्र क्षितिधरादौ धूमाद्भूमध्वजानुमानं भवति । तदप्यसम्यक् । अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात् । तथा ह्याग्रहोऽन्यत्र परिशीलनाभ्यासप्रवृत्तः प्रत्यक्षत एवोपलब्धस्ततस्तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते । उक्तं च 'आग्रहस्तावदभ्यासात् प्रवृत्तमुलपभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ।।' योऽपि च दृष्टान्तः प्रागुपन्यस्तः । सोऽप्ययुक्तो वैषम्यात् । तथाहि चित्रमचेतनं गमनस्वभावरहितञ्च । आत्मा च चेतनः कर्मवशाद्गत्यागती च कुरुते ततः कथं दृष्टान्तदान्तिकयोः साम्यं ततो यथा कश्चिद्देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहारंभं कृत्वा ग्रामान्तरे गृहान्तरे गृहान्तरमास्थायावतिष्ठतें तद्वदात्मापि विवक्षिते भवे देहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते । यञ्चोक्तं तञ्च संवेदनं देहकार्यमिति चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचिद्भवतु चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसंभवात् यत्तु मानसं तत्कथं, न हि तद्देहकार्यमुपपत्तिमत् युक्तययोगात् । तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुद्घातानीन्द्रियरूपाद्वा केशनखादिलक्षणात्तत्र न तावदाद्यः पक्ष इन्द्रियरूपादुत्पत्ताविन्द्रियबुद्धिवर्तमानार्थग्रहणप्रसक्ते: । इंद्रियं हि वार्तमानिक एवार्थे व्याप्रियते । तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानं इन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव भवेत्। अथ यदा चक्षू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति न शेषकालं, ततस्तदपि विज्ञानं वर्तमानार्थविषयं वर्तमाने एवार्थे चक्षुषो व्यापारात् । रूपविषयव्यापाराभावे च मनोज्ञानं ततो न तत्प्रतिनियतकालविषयं एवं शेषेष्वपीन्द्रियेषु वाच्यम् । ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः । तदसाधीया । यत इन्द्रियाश्रितं तदुच्यते यदीन्द्रियव्यापारमनुसृत्योपजायते । इन्द्रियाणां च व्यापारः प्रतिनियते । एवं वार्तमानिके स्वस्वविषये मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत इन्द्रियज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेदन्यथा इन्द्रियाश्रितमेव तन्न स्याद् । तथा च केचित्पठन्ति 'अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते तद्व्यापारो न तोति कथमक्षभवं भवेत् ।।' अथानीन्द्रियरूपादिति पक्षस्तदप्ययुक्तस्तस्याचेतनत्वात् नन्वचेतनत्वादिति कोऽर्थः । यदीन्द्रियविज्ञानरहितत्वादिति । तदिष्यते एव । यदि नामेन्द्रियविज्ञानं ततो न भवति मनो, विज्ञानं तु कस्मात्र भवति । अथ स्याद्वादमञ्जरी
१५५)