________________
मनोविज्ञानं नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञाथैकदेशासिद्धो हेतुः । तदप्यसत् । अचेतनत्वादिति । किमुक्तं भवति । स्वनिमित्तविज्ञानैः स्फुरञ्चिद्रूपतयानुपलब्धेः स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरञ्चिद्रूपानुपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यत इति । युक्तं केशनखादयस्तु न मनोज्ञानेन तथा स्फुरञ्चिद्रूपा उपलभ्यन्ते कथं तेभ्यो मनोज्ञानं भवतीति प्रतिध्यायन्तु सुधियः आह च 'चेतयन्तो न दृश्यन्ते केशश्मश्रुनखादयः । ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम्' अपि च यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् तदुपघाते चोपहतं भवेन च भवति तस्मानायं पक्षः क्षोदक्षमः । किं च मनोज्ञानस्य सूक्ष्मार्थनेतृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यां व्यत्यासपूर्वका दृष्टाः । तथाहि तदेव शास्त्रमीहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोधे उल्लसति, स्मृतिपाटवं चापूर्वमुजुम्भते । एवं चैकशास्त्रेऽभ्यासतः सूक्ष्मार्थनेतृत्वशक्तौ पाटवशक्ती चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति । तदेवमभ्यासहेतुकाः सूक्ष्मार्थनेतृत्वादयो मनोज्ञानस्य विशेषदृष्टाः । अथ च कस्यचिदिह जन्माभ्यासव्यतिरेकेणापि दृश्यन्ते । ततोऽवश्यं पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यं कारणेन सह कार्यस्यान्यथानुपपन्नत्वप्रतिबन्धेन दृष्टलत्कारणस्यापि तत्कार्यत्वविनिश्चितेः । ततः सिद्धः परलोकयायी जीव: । सिद्धे च तस्मिन् परलोकयायिनि यदि कथंचिदुपकारी चाक्षुषादेविज्ञानस्य देहो भवेत् न कचिद्दोषः क्षयोपशमहेतुतया देहस्यापि कथंचिदुपकारित्वाभ्युपगमात् । न चैतावता तनिवृत्तौ सर्वथा तन्निवृतिः । नहि वह्निरासादितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्तते । केवलं विशेष एव कश्चनापि यथा सुवर्णस्य द्रवता । एवमिहापि देहनिवृत्ती ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्तते । न पुनः समूलं ज्ञानमपि । यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्यते देहनिवृत्तौ च निवृत्तिमत्तर्हि देहस्य तस्य भस्मावस्थायां मा भूदेहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान भवति । प्राणापानयोरपि हेतुत्वात्तदभावे न भवतीति चेन्न प्राणापानयोर्ज्ञानहेतुत्वायोगात्। ज्ञानादेव च तयोरपि प्रवृत्तिस्तथाहि यदि मंदो प्राणापानौ विसृष्टमिष्यते ततो मन्दौ भवतः दीघौ चेत्तर्हि दीर्घाविति यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राप्पापाननिमित्तं च विज्ञानं तर्हि नेत्यमिच्छावशात् प्राणापानप्रवर्तमानदृष्टप्राणापाननिमित्ते च विज्ञानं । ततः प्राणापानानिहर्हासातिशयसंभविज्ञानस्यापि निर्हासातिशयौ स्याताम् । अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् । अन्यथा कारणमेव तत्र स्यात् । भवतः प्राणापाननि-हाँसातिशयसंभवे विज्ञानस्यापि विनि-हासाविशयो । विपर्ययस्यापि भावात् । मरणावस्थायां प्राणापानातिशयसंभवेऽपि विज्ञानस्य हासदर्शनात् । स्यादेतत्तत्तदानीं वातपित्तादिभिदोषैर्देहस्य विगुणीकृतत्वात् । तदसमीचीनतरमेवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः । तथाहि मृतस्य दोषाः समीभवन्ति । समीभवनं च दोषाणामवसीयते । ज्वरादिविकारादर्शनात् । समत्वं चारोग्यं तथा चाहुर्वृद्धाः 'तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय' इति । आरोग्यलाभत्वाद्देहस्य पुनरुज्जीवनं भवेत् । अन्यथा चेह कारणमेव चेतसो न स्यात् । तद्विकाराभावाभावानतु विधानादेवं हि देहकारणता विकारस्याश्रद्धया स्यात् । यदि पुनरुज्जीवनं भवेत् स्यादेतदयुक्तमिदं
पुनरुज्जीवनप्रसंगोपादानं यतो यद्यपि दोषा देहस्यावैगुण्यमाधाय निवृत्तास्तथापि न तत्कृतस्य (१५६) shanta
स्याद्वादमञ्जरी)