________________
वैगुण्यस्य निवृत्तिः । न हि दहनकृतो विकारः काष्ठे दहननिर्वृत्तो निवर्तमानो दृष्टाः । तदयुक्तमिह हि क्वचित्किंचिदनिवर्त्य विकारारम्भकम् । यथा वह्निः काष्ठे श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्तते । किंचित्पुनः भवति अग्निनिवृत्तौ निवर्तते तत्र वातादयो दोषा निवर्त्य विकारारम्भकाश्चिकित्सा प्रयोगदर्शनात् । यदि पुनरनिवर्त्य विकारारम्भका भवेयुस्तर्हि न तद्विकारनिवर्तनाय चिकित्सा विधीयेत वैफल्यप्रसंगात् । न च वाच्यं मरणात् प्राग्दोषा अनिवर्त्यविकारारम्भका मरणकाले च निवर्त्य विकारा इति ।
1
एकस्य एकत्रैव निवर्त्यानिवर्त्याविकारम्भकत्वायोगात् नह्येकमेव तत्रैव निवर्त्यविकारारम्भकं चानुभवितुमर्हति तथा दर्शनात् । ननु द्विविधोऽपि व्याधिः साध्योऽसाध्यश्च । तत्र साध्य निवर्त्यस्वभावस्तमेव चाधिकृत्य चिकित्सा फलवती । असाध्योऽनिवर्तनीयः । न च साध्यासाध्यभेदो नवा व्याधिद्वैविध्यमप्रतीतं सकललोकप्रसिद्धत्वात् । व्याधिश्च दोषेण कृतस्ततः कथं दोषाणां निवर्त्यनिवर्त्याविकारम्भकत्वमनुपन्नमिति । तदप्यसत् । भवन्मते साध्यासाध्य- व्याध्यनुपपतेः । तथाहि । असाध्यता व्याधेः क्वचिदायुः क्षया । तथाहि तस्मिन्नैव व्याधौ समानेऽप्यौषधवैद्यकसंपर्क कश्चिन्प्रियते कश्चिन्न । क्वचित्पुनः प्रतिकूलकर्मोदयात् । प्रतिकूलकर्मोदयजनितो हि श्वित्रादिव्याधिरौषधसहस्रैरपि क्वचिदसाध्यो भवति । एतच द्विविधमपि व्याधेरसाध्यत्वमर्हतामेव मते संगच्छते । न भवतो भूतमात्रतत्त्ववादिनः । क्वचित्पुनरसाध्यो व्याधिर्दोषकृतविकारानिवर्तनसमर्थो निषेधस्याभावात् वैद्यस्य वा वैद्यौषधसंपर्काभावे हि व्याधिः प्रसर्पन् सकलमप्यायुरुपक्रमते । नतु वैद्यौषधसंपर्काभावादेवास्माकमपि पुनरुज्जीवनं भविष्यति । नहि तदस्ति किंचिद्रौषधं वैद्यो वा यत्पुनरुज्जीवयति । तदप्ययुक्तं वैद्यैषधौ हि दोषविकारनिवर्तनार्थमिष्येते । न पुनरत्यन्तासतश्चैतन्यस्योत्पादनार्था तथाभ्युपगमात् । दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ता ज्वरादेरदर्शनात्ततः किं वैद्योषधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसंग: । प कचिद्दोषाणामुपशमेऽप्येकस्मान्प्रियते कश्चिचातिदोषदुष्टत्वेऽपि जीवति । तदेतद्भवन्मते कथमुपपत्तिमर्हति तथा च केचिद् ब्रुवते 'दोषस्योपशमेऽप्यस्ति मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद्भवन्मते ।।' अर्हतां तु शासने यावदायुः कर्म विजृम्भते तावद्दोषैरतिपीडितोऽपि जीवति आयुः कर्मक्षये च दोषाणामधिकृतावपि म्रियते । तन देहमात्रकारणं संवेदनम् । अन्यच्च देहः कारणं संवेदनस्य सहकारिभूतं वा भवेदुपादानभूतं वा । यदि सहकारिभूतं तदिष्यत एव देहस्यापि क्षयोपशमहेतुतया कथञ्चिदधिज्ञानहेतुत्वाभ्युपगमात् । अथोपादानभूतं तदयुक्तम्, उपादानं हि तत्तस्य यद्विकारेणैव तस्य विकारो यथा मृद्घटस्य । न च देहविकारेणैव विकारः संवेदनस्य देहविकार भावेऽपि भयशोकादिना तद्विकारदर्शनात् । तत्र देहोपादानं संवेदनस्य । तथा च पठत्युपादानलक्षणमपरे अधिकृत्य हि यद्वस्तुना यः पदार्थों विकार्यते उपादानं तत्तस्य युक्तं गोगवयादिवत् एतेन यदुच्यते मातापितृचैतन्यमेतचेतनस्योपादानमिति तदपि प्रतिक्षिप्तं तत्रापि तद्विकारे विकारित्वं तदविकारे वाविकारित्वमिति नियमादर्शनात् । अन्यच्च यद् यस्योपादानं तत् तस्माद् भेदेन व्यवस्थितम् । यदा मृदोघटः । मातापितृचैतन्यं सुत चैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत । न व्यवतिष्ठते, तस्माद् यत्किंचिदेतत् । तत्र भूतधर्मो भूतकार्यं वा चैतन्यं किंचात्मनो गुण इति तद्गुणस्य (स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ
ॐ ॐ ॐ १५७