________________
प्रत्यक्षसिद्ध आत्मा । अनुमानसिद्धश्च । तच्चानुमानमिदं, रूपादीन्द्रियाणि विद्यमानप्रयोजकानि । कर्मकरणत्वे सति ग्राह्यग्राहकरूपत्वात् यः कर्मकरणे सति ग्राह्यग्राहकरूपस्स विद्यमानप्रयोजको यथा सदंशोऽयःपिण्डे । कर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि । ततो विद्यमानप्रयोजकानीति । न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् । तथा चात्र प्रयोगः । यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्येन्द्रियाणि । न चायमसिद्धो हेतुः । यतः खलु द्रव्येन्द्रियाणि निवृत्युपकरणरूपाणि निर्वृत्युपकरणे च पुद्गलमयं च सर्वमचेतनं पुद्रलानां काठिन्यावबोधरूपतया चैतन्यं प्रति धर्मित्वायोगात् । धर्मानुरूपो हि सर्वत्रापि धर्मी । यथा काठिन्यं प्रति पृथिवी । यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मभावो भवेत् ततः काठिन्यजलयोरपि सम्भवेत्तन भवति तस्मादचेतनाः पुंद्रलाः । तथा चोक्तं 'वाहसनावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणिय वूयाणि जगप्पसिद्धाणि ।।१।। ता धम्मधम्मिभावो कहमेएसिं अणुब्भवगामेय । अणुरूपत्ताभावे काठिन्नजलाण किं न भवे ।।२।।' ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृभाव इति स्थितम् । अथ चेदनुमानं, सभोक्तृकमिदं शरीरं भोग्यत्वात् स्थालिस्थितौदनवत् भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात् । द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धसिद्धदृष्टांते प्रत्यक्षप्रमाणसिद्धेति नोक्तलिंङ्गलिंङ्गिसंबंधाग्रहरूपदोषावकाशः । आगमगम्योऽप्येष जीवः । तथा चागमः ‘अणिंदियगुणं जीवं दुन्नेयं मंसचक्खुणा । सिद्धं पस्संति सव्वन्नू, नाणसिद्धा य साहुणो ।।१।।' अत्र ज्ञानसिद्धाः साधवो भवस्थकेवलिनः शेषं सुगमम् । न चागमानां परस्परविरुद्धार्थतया सर्वेषामप्यप्रामाण्यमभ्युपेयं, सर्वज्ञमूलस्यावश्यं प्रमाणत्वेनाभ्युपगमार्हत्वाद् । अथाऽप्यसम्यक् प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षावतां क्षितिप्रसंगात् । अथ कथमेतत् प्रत्येयं यथायमागमः सर्वज्ञमूल इत्युच्यते-यदुक्तोऽर्थः प्रत्यक्षेणानुमानेन वा न बाध्यते नापि पूर्वापरव्याहतः सोऽदसीयसर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासंभवात् । ततस्तस्माद्यत्सिद्धं तत्सर्वं सुसिद्धं उक्तं च 'दिटेणं इठेवणय जम्मि विरोहो न हुज्जइ कहिं वि । सो आगमतत्तो जं नाणं तं सम्मनाणं ति ।।१।।' ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदपदप्रतिष्ठितत्वाञ्च सौम्य ! अस्ति जीव इति प्रतिपत्तव्यम् । आवश्यकमलयगिरिद्वितीयखंडे । (इह वेदपदोपन्यासस्तेनवेदानां प्रमाणत्वेनाङ्गीकृतत्वात्) । आहच
'छित्रमि समयंमि जाइजरामरणविष्पमुक्केणं ।
सो समंणो पव्वइओ पंचहि सह खंडियसएहिं ।।' उक्तप्रमाणेन जिनेन भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः । तेन छिन्ने निराकृते संशये स इन्द्रभूति: पंचभिः खण्डिकशतैः छात्रशतैः सह श्रमणः प्रव्रजितः सन् साधुः संवृत्त इत्यर्थः ।। आवश्यकमलयगिरिद्वितीयखंडे ।। एवमन्येऽपि पराजिताः प्रव्राजिताश्च । एतञ्च विस्तरेण विशेषावश्यकभाष्ये गणधरवक्तव्यतायामावश्यकचूर्णी कल्पसूत्रषष्टक्षणे श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां निरूपितं तत्तत एवावसेयम् ।
(१५८Runkhak
स्याद्वादमञ्जरी