________________
''न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला '।।१।।
इति श्लोकं पठन्ति । अस्य च यथाश्रुताऽर्थव्याख्यानेऽसम्बद्धप्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव । तस्मानिवृत्तिः कथमिव महाफला भविष्यति । इज्याऽध्ययनदानादेरपि निवृत्तिप्रसङ्गात् । तस्माद् अन्यद् ऐदंपर्यमस्य श्लोकस्य । तथा हि-न मांसभक्षणे कृतेऽदोषः, अपि तु दोष एव, एवं मद्यमैथुनयोरपि । कथं नाऽदोषः ? इत्याह-यतः प्रवृत्तिरेषा भूतानाम्-प्रवर्तन्त उत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानम्, भूतानां जीवानाम्, तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमांगमे
४आमासु य पक्कासु य विपञ्चमाणासु मांसपेसीसु । आयंतियमुववाओ भणियो दु णिगोयजीवाणं ।।१।। मजे महुह्मि मंसंम्हि णवणीवम्हि चउत्थए । उप्पजंति अणंता तव्वण्णा तत्थ जंतूणो ।।२।। मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पण्णत्ता सद्दहियवा सयाकालं ।।३।।'
तथाहि
१. मनुस्मृतिः ५।५६. २. ऐदंपर्य-तात्पर्यम्. ३. रत्नशेखसूरिकृतसम्बोधिसप्ततिका गाथा ६६।६५।६३. ४. 'आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितस्तु
निगोदजीवानाम् ।।१।। मद्ये मधुनि मांसे नवनीते चतुर्थके । उत्पद्यन्तेऽनन्ताः तद्वर्णास्तत्र जन्तवः ।।२।। मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिता: श्रद्धातव्याः सदाकालम् ।।३।। इति छाया,
स्याद्वादमञ्जरी
s
airintinutsii१५९)