________________
"इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इक्को व दो व तिण्णि व सक्खपुहुत्तं उ उक्कस्सं ।।४।। पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदिटुंतेणं तत्तायसिलागणाएणं ।।५।।' संसक्तायां योनौ द्वीन्द्रिया एते । शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे 'पंचिदिया मणुस्सा एगणरभुत्तणारिगब्भम्हि । उक्तस्सं णवलक्खा जायंति एगवेलाए ।।६।। णवलक्खाणं मझे जायइ एक्क दुण्हेय सम्मत्ती । सेसा पुण एमेव य विलयं वचंति तत्थेव ।।७।। तदेवं जीवोपमर्दहेतुत्वाद् न मांसभक्षणादिकमदुष्टमिति प्रयोगः । अथवा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः-त एवात्र मांसभक्षणादौ प्रवर्तन्ते, न पुनर्विवेकिन इति भावः । तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह- 'निवृत्तिस्तु महाफला'-तुरेवकारार्थः । 'तुः स्याद् भेदेऽवधारणे' इति वचनात् । ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदा । न पुनः प्रवृत्तिरपीत्यर्थः । अत एव स्थानान्तरे पठितम्.. 'वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । .. मांसानि च न खादेद् यस्तयोस्तुल्यं भवेत् फलम् ।।१।। .. ___ एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । ___ न सां ऋतुसहस्त्रेण प्राप्तुं शक्या युधिष्ठिर !' ।।२।।
१. स्त्रीयोनौ, सम्भवन्ति द्वीन्द्रियादिस्तु ये जीवा: । एको वा द्वौ वा त्रयो वा लक्षपृथुत्वं चोत्कृष्टम्
।।४।। पुरुषेण सहं गतायां तेषां जीवानां भवति उद्रवणम् । वेणुकदृष्टान्तेन तप्तायसशलाकाज्ञांतेन ।।५।। पंचेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्ट नवलक्षा जायन्ते एकवेलायाम् ।।६।। नवलक्षाणां मध्ये जायते एकस्य द्वयोर्वा समाप्तिः । शेषाः पुनरेवमेव च विलयं व्रजन्ति तत्रैव
।।७।। इति छाया ।।। २. अमरकोशे तृतीयकाण्डे २३९ श्लोकः । ३. मनुस्मृतिः ५।५३. (१६०/AAAA
स्याद्वादमञ्जरी