________________
मद्यपाने तु कृतं सूत्रानुवादैः । तस्य सर्वविगर्हितत्वात् । तानेवं प्रकारानर्थान् कथमिव बुधाभासास्तीर्थिका वेदितुमर्हन्तीति कृतं
अथ केऽमी सप्तभङ्गाः, कश्चायमादेशभेद इति । उच्यते - एकत्र जीवादी वस्तुनि, एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षाऽऽदिबाधापरिहारेण, पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गीति गीयते । तद्यथा - १ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । ३ स्यादस्त्येव स्यान्नास्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । ५ स्यादस्त्येव 'स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । ६ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि - निषेधकल्पनया च षष्ठः । ७ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया, युगपद्विधिनिषेधकल्पनया च सप्तमः । तत्र - स्यात्कथंचित् स्वद्रव्यक्षेत्रकालभाव - रूपेणास्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण, तथाहि - कुम्भो द्रव्यतः पार्थिवत्वेनास्ति । नाऽऽप्याऽऽदिख्मत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन । न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन । न वासन्तिकादिऽऽत्वेन । भावतः श्यामत्वेन । न रक्ताऽऽदिवत्वेन । अन्यथेतररूंपाऽऽपत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमताऽर्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत। प्रतिनियतस्वार्थाऽनभिधानात् । तदुक्तम्'४ वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित्' ।।१।।
तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाऽऽद्यस्तित्वेनापि सर्वप्रकारेणाऽस्तित्वप्राप्तेः प्रतिनियतस्वरूपाऽनुपपत्तिः स्यात् । तत्प्रतिपत्तये स्याद् इति शब्दः प्रयुज्यते । स्यात् कथंचिद् स्वद्रव्यादिभिरेवाऽयमस्ति । न परद्रव्यादिभिरपीत्यर्थः । यत्राऽपि चाऽसौ न प्रयुज्यते तत्राऽपि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्
१. 'अतिप्रसङ्गेन' इति क. ह. पुस्तकयोः पाठः ।
२. पाटलिपुत्रं नाम नगरं 'पटणा' ख्यातम् ।
३. कान्यकुब्जो देश: 'कनौज' इति ख्यातः । औत्तराहेषु प्रसिद्धः ।
४. तत्त्वार्थश्लोकवार्तिक १ अध्याय सू. ६ श्लो. ५३ ।
स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐ ४ १६१