________________
''सोऽप्रयुक्तोऽपि वा तज्जैः सर्वज्ञार्थात्प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः' ।।१।। इति प्रथमो भङ्गः ।
स्यात्कथंचिद् नाऽस्त्येव कुम्भादिः । स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वाऽनिष्टौ हि प्रतिनियतस्वरूपाऽभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् । कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात्, साधनवत् । न हि क्वचिद् अनित्यत्वाऽऽदौ साध्ये सत्त्वाऽऽदिसाधनस्याऽस्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाभावप्रसङ्गात् । तस्माद् वस्तुनोऽस्तित्वं नास्तित्वेनाऽविनाभूतम्, नास्तित्वं च तेनेति । विवक्षावशाञ्चाऽनयोः प्रधानोपसर्जनभावः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्-'अर्पितानर्पितासिद्धेः' इति वाचकवचनात् । इति द्वितीयः । तृतीयः स्पष्ट एव । ____ द्वाभ्यामस्तित्व-नास्तित्वधर्माभ्यां युगत्प्रधानतयाऽर्पिताभ्याम् एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्याऽसम्भवाद् अवक्तव्यं जीवादिवस्तु । तथाहि-सदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम् । तस्याऽसत्त्वप्रतिपादना-ऽसमर्थत्वात् । तथा सदित्यनेनापि, तस्य सत्त्वप्रत्यायनसामर्थ्यभावात् । न च पुष्पदन्ताऽऽदिवत् साङ्गेतिकमेकं पदं तद् वक्तुं समर्थम् । तस्यापि क्रमेणाऽर्थद्वयप्रत्यायने सामोपपत्तेः । शतृशानयोः "संकेतितसच्छब्दवत् । अतएव द्वन्द्व-कर्मधारय-वृत्त्योर्वाक्यस्य च न तद्वाचकत्वम्, इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सत्त्वाऽसत्त्वाभ्यां प्रधानभावाऽर्पिताभ्यामाक्रान्तं व्यवतिष्ठते । नच सर्वथा वक्तव्यम् अवक्तव्यशब्देनाऽप्यनभिधेयत्वप्रसङ्गाद् इति चतुर्थः । शेषास्त्रयः सुगमाऽभिप्रायाः । . न च वाच्यमेकत्र वस्तुनि विधीयमाननिषिध्यमानाऽनन्तधर्माऽभ्युपगमेनाऽनन्तभङ्गीप्रसङ्गाद् असङ्गतैव सप्तंभङ्गीति । विधिनिषेधप्रकाराऽपेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभङ्गीनामेव संभवात् ।
१. तत्त्वार्थलोकवार्तिके १ अध्याय सू. ६ श्लो. ५६ । २. 'प्रत्यायने' इति क. पुस्तके पाठः । ३. पुष्पदन्ताख्यो गंधर्वविशेषः । तेन शिवमहिमस्तोत्रं व्यरचि । तत्र गन्धर्वविशेषे पुष्पदन्तशब्द
एकपदात्मको रुढस्तत्संज्ञासंकेतेन । न तु तत्र पुष्याणीव दन्ता अस्येति विग्रहयुक्तसमासघटित
पदद्वयेनाऽर्थो बोध्यते । तद्वदत्र । . ४. 'तौ सत्' इति पाणिनिसूत्र ३।२।१२७. ५. वृत्तिः-समासः । (१६२RAMANA स्याद्वादमञ्जरी