________________
यथा हि सदसत्त्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्गयेव स्यात् । तथाहि स्यात्सामान्यम्, स्याद् विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्याऽवक्तव्यम्, स्याद् विशेषाऽवक्तव्यम्, स्यात्सामान्यविशेषाऽवक्तव्यमिति । न चात्र विधि-निषेधप्रकारौ न स्त इति वाच्यम् । सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधाऽत्मकत्वात् । अथवा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता । यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेधरूपता । एवं सर्वत्र योज्यम् । अतः सुष्ठुक्तम् अनन्ता अपि सप्तभङ्गय एव 'संभवेयुरितिप्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् । तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् । तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् । तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्रसकलादेशः प्रमाणवाक्यम् । तल्लक्षणं चेदम् । प्रमाणप्रतिपन्नाऽनन्तधर्माऽऽत्मकवस्तुनः कालाऽऽदिभिरभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा । यौगपद्येन प्रतिपादकं वचः सकलादेशः । अस्यार्थः- कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेर्धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात् कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाऽध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः । तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । अयमाशय: - यौगपद्येनाऽशेषधर्माऽऽत्मकं वस्तु कालाऽऽदिभिरभेद' प्राधान्यवृत्याऽभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद्वा तदभिधत्ते तस्य नयाऽऽत्मकत्वात् ।
कः पुनः क्रमः, किं च यौगपद्यम् । यदास्तित्वादिधर्माणां कालाऽऽदिभिर्भेदविवक्षा, तदैकशब्दस्याऽनेकाऽर्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेन तदाऽऽत्मकतामापन्नस्याऽनेकाऽशेषधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् ।
के पुनः कालादयः ? कालः, आत्मरूपम्, अर्थ:, संबन्धः, उपकारः, गुणिदेशः, संसर्ग, शब्दः, । तत्र- (१) स्याद् जीवादिवस्तु अस्त्येव इत्यत्र यत्कालमस्तित्वं तत्कालाः शेषाऽनन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः । (२) यदेव चाऽस्तित्वस्य
१. 'भवेयुः' इति क. ख. घ. रा. ह. पुस्तकेषु पाठः । २. 'प्राधान्य' इति ख. घ. पुस्तकयोर्नास्ति ।
(स्याद्वादमञ्जरी बैंक
४. १६३