________________
तद्गुणत्वमात्मरूपं तदेव अन्यानन्तगुणानामपीति आत्मरूपेणाऽभेद- वृत्तिः । (३) य एव चाधारोऽथों-द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः । (४) य एव चाऽविष्वग्भावः कथंचित् तादात्म्यलक्षणः सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाऽभेदवृत्तिः (५) य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एव शेषैरपि गुणैरित्युपकारेणाऽभेदवृत्तिः । (६) य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्यगुणानामिति गुणिदेशेनाऽभेदवृत्तिः । (७) य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसर्गेणाऽभेदवृत्तिः, अविष्वग्भावेऽभेदः प्रधानम्, भेदो गौणः, संसर्गे तु भेदः प्रधानम्, अभेदो गौण इति विशेषः । (८) य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषाऽनन्तधर्मात्मकस्याऽपीति शब्देऽनाभेदवृत्तिः पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्याद् उपपद्यते । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवति । समकालमेकत्र नानागुणानामसम्भवात् । सम्भवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात्। नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाऽभेदे तेषां भेदस्य विरोधात् । स्वाश्रयस्याऽर्थस्यापि नानात्वाद, अन्यथा नानागुणाऽश्रयत्वस्य विरोधात्। सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनाद् नानासम्बन्धिभिरेकत्रसम्बन्धाऽघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात् अनेकैरूपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात्। गणिदेशस्य प्रतिगणं भेदात् तदभेदे भिन्नार्थगुणानामपि गुणिदेशाऽभेद-प्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गिभेदात् तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात् सर्वगुणानामेकशब्दबाच्यतायां सर्वार्थानामेकशब्दवाच्यताऽऽपत्तेः
शब्दान्तरवैफल्याऽऽपत्तेः । तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्ये-वमभेदवृत्तेरसंभवे कालादिभिभिन्नात्मनाम भेदोपचारः क्रियते । तदेताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नाऽनन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्यायः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण यदभिधायकं वाक्यं स विकलादेशो नयवाक्यापरपर्याय इति स्थितम् । ततः साधूक्तम् आदेशभेदोदितसप्तभङ्गम् । इति काव्यार्थः ।।२३।।
१. 'भावेनं इति क. ह. पुस्तकयोः पाठः । २. 'एकस्य' इति के. ख. घ. रा. ह. पुस्तकेषु नास्ति । ३. 'वैकल्पापत्तेश्च' इति रा. पुस्तके पाठः । ४. 'अभेदप्रधान' इति क. पुस्तके पाठः । ५. 'अतः' इति क. पुस्तके पाठः ।
-
(१६४Manakam स्याद्वादमञ्जरी)