________________
अनन्तरं भगवद्दर्शितस्याऽनेकान्ताऽऽत्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तम् । अनेकान्ताऽऽत्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति साऽपि निरूपिता । तस्यां च विरुद्धधर्माऽध्यासितं वस्तु पश्यन्त एकान्तवादिनोऽबुधरूपा विरोधमुद्भावयन्ति । तेषां प्रमाणमार्गात् च्यवनमाह
उपाधिभेदोपहितं विरुद्धं
नार्थेष्वसत्त्वं सदवाच्यते च ।
इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ।। २४ ।।
अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्त्वं नास्तित्वं न विरुद्धं न विरोधा वरुद्धम्अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः । न केवलमसत्त्वं न विरुद्धम्, किं तु सदवाच्यते च-सच्चाऽवाच्ये च सदवाच्ये, तयोर्भावौ सदवाच्यते-अस्तित्वाऽवक्तव्यत्वे इत्यर्थः । ते अपि न विरुद्धे ।
तथाहि - अस्तित्वं नास्तित्वेन सह न विरुध्यते । अवक्तव्यत्वमपि विधिनिषेधात्मकमन्योन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुद्वहति । अनेन च नास्तित्वाऽस्तित्वाऽवक्तव्यत्वलक्षणभङ्गत्रयेण सकलसप्तभङ्गया निर्विरोधता उपलक्षिता । अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगजत्वेनामीष्वेवाऽन्तर्भावादिति ।
नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति, इति विशेषणद्वारेण हेतुमाह- उपाधिभेदोपहितम् इति - उपाधयोऽवच्छेदका अंशप्रकाराः, तेषां भेदो नानात्वम्, तेनोपहितमर्पितम् - असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहित सदर्थेष्वसत्त्वं न विरुद्धम्, सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम् । उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे ।
अयमभिप्रायः-परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहानऽवस्थान
१. 'विरुध्येते' इति क. पुस्तके पाठः ।
स्याद्वादमञ्जरी
१६५