________________
लक्षणो विरोधः । न चाऽत्रैवम् । सत्त्वाऽसत्त्वयोरितरेतरमविष्वग्भावेन वर्तनात् । न हि घटादौ सत्वमसत्त्वं परिहत्य वर्तते । पररूपेणाऽपि सत्त्वाऽप्रसङ्गात् । तथा च तद्व्यतिरिक्ताऽर्थान्तराणां नैरर्थक्यम् । तेनैव त्रिभुवनाऽर्थसाध्याऽर्थक्रियाणां सिद्धेः । न चाऽसत्त्वं सत्त्वं परिहत्य वर्तते, स्वरूपेणाऽप्यसत्वाऽप्राप्तेः । तथा च निरुपाख्यत्वात् सर्वशून्यतेति । तदा हि विरोधः स्याद्, यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात्। न चैवम् । यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि । किं त्वन्योपाधिकं सत्त्वम्, अन्योपाधिकं पुनरसत्त्वम् । स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम् ।
दृष्टं ह्येकस्मिन्नेव चित्रपटाऽवयविनि अन्योपाधिकं तु नीलत्वम्, अन्योपाधिकारश्चेतरे वर्णा:नीलत्वं हि नीलीरागाधुपाधिकम्, वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं 'मेचकरत्नेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिदृष्टान्तैः सत्त्वाऽसत्त्वयोभिन्नदेशत्वप्राप्तिः चित्रपटाद्यवयविन एकत्वात्, तत्राऽपि भिन्नदेशत्वाऽसिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दार्टान्तिके च स्याद्वादिनां न दुर्लभः ।
एवमप्यपरितोषश्चेद् आयुष्मतः, तये॒कस्यैव पुंसस्तदुपाधिभेदात् पितृत्व-पुत्रत्वमातुलत्व-भागिनेयत्व-पितृव्यत्व-भ्रातृव्यत्वाऽऽदिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात् किं वाच्यम् । एवमवक्तव्यत्वादयोऽपि वाच्या इति । उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाऽभावमप्रबुध्यैवाज्ञात्वैव । एवकारोऽवधारणे । स च तेषां सम्यग्ज्ञमनस्याऽभावएव, न पुनर्लेशतोऽपि भाव इति व्यक्ति । ततस्तेविरोधभीताःसत्त्वाऽसत्त्वादिधर्माणां बर्हिमुखशेमुष्या संभावितो वा विरोधः सहाऽनवस्थानादिः, तस्माद् भीतास्रस्तमानसाः अत एव जडाः । तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूर्खा: परवादिनः, तदेकान्तहता:-तेषां सत्त्वादिधर्माणां
१. 'तथापि' इति क. पुस्तके पाठः । २. मेचकरत्नं रत्नजातिविशेषः अत्र विचित्रवर्णाः स्युः । 'मेचकरक्ते' इति रा. ख. पुस्ककयोः
पाठ: । मेचकपदेन मयूरपिच्छगतनानावर्णविशिष्टवर्तुलाकृतिविशेषो बोध्यः । ३. 'एकस्येव' इति क. ह. पुस्तकयोः पाठः । ४. 'अपि' इति क. पुस्तके नास्ति । ५. शेमुषी-बुद्धिः । (१६६) Assistan स्याद्वादमञ्जरी