________________
य एकान्त इतरधर्मनिषेधेन स्वाऽभिप्रेतधर्मव्यवस्थापननिश्चयस्तेन हता इव हताः पतन्ति स्खलन्ति - पतिताश्च सन्तस्ते न्यायमार्गाक्रमणे न समर्थाः, न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः ।
,
1
यद्वा पतन्तीति प्रमाणमार्गतः च्यवन्ते । लोके हि सन्मार्गच्युतः पतितं इति परिभाष्यते। अथवा यथा वज्रादिप्रहारेण हतः पतितो मूर्च्छामतुच्छामासाद्य ३विरुद्धवाक्- प्रसरो भवति । एवं तेऽपि वादिनः स्वाऽभिमतैकान्तवादेन युक्तिसरणिमनुसरता वज्राशनिप्रायेण निहताः सन्तः स्याद्वादिनां पुरतोऽकिञ्चित्करा वाङ्मात्रमपि नोचारयितुमीशत इति ।
1
,
अत्र च विरोधस्योपलक्षणत्वात् वैयधिकरण्यम्, अनवस्था, संकरः, व्यतिकरः, संशयः अप्रतिपत्तिः, विषयव्यवस्थाहानिरित्येते ऽपि परोद्भाविता दोषा अभ्यूह्याः । तथाहि सामान्य-विशेषात्मकं वस्तु इत्युपन्यस्ते परे " उपालब्धारो भवन्ति, यथा सामान्य-विशेषयोर्विधिप्रतिषेधरूपयोर्विरुद्धधर्मयोरेकत्राऽभिन्ने वस्तुनि असंभवात् शीतोष्णवदिति विरोधः । न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याऽधिकरणं भवितुमर्हति, एकरूपतापत्तेः, ततो वैयधिकरण्यमपि भवति । अपरं च येनाऽऽल्सना सामान्यस्याऽधिकरणं, येन च विशेषस्य तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् । एकेनैव चेत् । तत्र पूर्ववद् विरोधः । द्वाभ्यां वा स्वभावाभ्यां सामान्यविशेषाख्यं स्वभावद्वयमधिकरोति, तदाऽनवस्था । तावपि स्वभावान्तराभ्याम्, तावपि स्वभावाऽन्तराभ्यामिति । येनाऽऽत्मना सामान्यस्याऽधिकरणं तेन सामान्यस्य विशेषस्य च । येन च विशेषस्याऽधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः । येन स्वभावेन सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः । ततश्चाऽप्रतिपत्तिः । ततश्च प्रमाणविषयव्यवस्थाहानिरिति । एते च दोषाः स्याद्वादस्य जात्यन्तरत्वाद् निरवकाशा एव । अतः स्याद्वादमर्मवेदिभिरुद्धरणीयास्तत्तदुपपत्तिभिरिति । स्वतन्त्रतया निरपेक्षयोरेव सामान्य-विशेषयोर्विधि-प्रतिषेधरूपयोस्तेषामवकाशात् ।
१. 'क्रमणेनासमर्थाः' इति क. ख. घ. रा. पुस्तकेषु पाठः ।
२. अतुच्छा न स्वल्पा । महतीत्यर्थः ।
३. मूक इत्यर्थ: 1
४. 'परोद्भावनीयाः' इति घ. पुस्तके पाठः ।
५. उपालब्धारः - निन्दका उपलम्भवादिनः ।
(स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ १६७