________________
-अथवा विरोधशब्दोऽत्र दोषवाची, यथा विरुद्धमाचरतीति दुष्टमित्यर्थः । ततश्च विरोधेभ्यो विरोधः वैयधिकरण्याऽऽदिदोषेभ्यो भीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्ति । इति काव्यार्थः ।।२८।।
अथाऽनेकान्तवादस्य सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदाऽपेक्षया चातुर्विध्याऽभिधानद्वारेण भगवतस्तत्त्वाऽमृतरसाऽऽस्वादसौहित्यमुपवर्णयनाह
स्याद् नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ।।१७।।
स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम्, तदेव अधिकृतमेवैकं वस्तु, स्यात् कथञ्चिद् नाशि-विनशनशीलमनित्यमित्यर्थः । स्याद् नित्यम् अविनाशिधर्मीत्यर्थः । एतावता नित्याऽनित्यलक्षणमेकं विधानम् । तथा स्यात् सदृशमनुवृत्तिहेतुसामान्यरूपम्, स्याद् विरूपं विविधरूपम्-विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपमित्यर्थः । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः ।
- तथा: स्याद् वाच्यं वक्तव्यम्, स्याद् न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तम् । तथाप्यवाच्यपदं योन्यादौ रूढमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः । एतेनाऽभिलाप्याऽनभिलाप्यस्वरूपस्तृतीयो भेदः । तथा स्याद् विद्यमानमस्तिरूपमित्यर्थः । स्याद् असत् तद्विलक्षणमिति, अनेन सदसदाख्या चतुर्थी विधा ।।
१. अथवेत्यादिश्लोकसमाप्तिपर्यन्तं क. पुस्तके नास्ति । २. 'सर्वपर्याय' इति क. ख. ह. पुस्तकेषु पाठः ।। ३. अत्रेत्यारभ्य स्तुतिकार इत्यन्तं क. पुस्तके नास्ति । (१६AASARMINARMAn
s स्याद्वादमञ्जरी