________________
हे विपश्चितां नाथ ! सङ्ख्यावतां मुख्य ! इयमनन्तरोक्ता नीपीततत्त्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणात् सामर्थ्याद्वा गम्यतेतत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः, तदेव जरामरणाऽपहारित्वाद्, विबुधोपभोग्यत्वाद्, मिथ्यात्वविषोर्मिनिराकरिष्णुत्वाद्, आन्तराह्लादकारित्वाञ्च पीयूषं तत्त्वसुधा, नितरामनन्यसामान्यतया प्रीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उदारपरम्परा उद्गारश्रेणिरिवेत्यर्थः । यथा हि कश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरामरणापहारि तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनी प्रस्तुताऽनेकान्तवादभेद- चतुष्टयीलक्षणामुद्गारपरम्परां देशाऽनुमुखेनोद्गीर्णवानित्याशयः ।
अथ वा यैरेकान्तवादिभिर्मिथ्यात्वगरलभोजनमातृप्तिं भक्षितं, तेषां तत्तद्वचनरूपा उद्गारप्रकाराः प्राक्प्रदर्शिताः । यस्तु पचेलिमप्राचीनपुण्यप्राग्भारऽनु गृहीतैर्जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतम्, तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम् । ..
। एते च चत्वारोऽपि वादास्तेषु तेषु स्थानेषु प्रागेव चर्चिताः । तथाहि "आदीपमाव्योम समस्वभावम्' इति वृत्ते नित्यानित्यवादः प्रदर्शितः । "अनेकमेकात्मकमेव वाच्यम्' इति काव्ये सामान्यविशेषवाद: संसूचितः' सप्तभङ्गयामभिलाप्याऽनभिलाप्यवादः, सदसद्वादश्च चर्चितः । इति न भूयः प्रयासः । इति काव्यार्थः ।।२५।।
इदानीं नित्याऽनित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेति संनिपातसंजातविंनिपातयोरयत्नसिद्धप्रतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह१. 'भेद' इति ख. पुस्तके नास्ति । २. पचेलिम-फलावस्थाप्राप्तम् । ३. मनोहत्य-श्रद्धाप्रतिघातेन । रुच्यपेक्षयाप्यधिकम् । ४. पंचमश्लोकः । ५. चतुर्दशश्लोकः । ६. संसूचित इत्यारभ्य चर्चित इत्यन्तं क. पुस्तके नास्ति । ७. हेतिः-शस्त्रम् । स्याद्वादमञ्जरी AR RANA १६९)