________________
य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिनशासनं ते ||२६|| किलेति निश्चये य एव नित्यवादे नित्यैकान्तवादे, दोषा अनित्येकान्तवादिभिः प्रसञ्जिताः क्रम योगपद्याभ्यामर्थक्रियाऽनुपपत्त्यादयः, त एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि,समास्तुल्याः; नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः । तथाहि नित्यवादी प्रमाणयतिसर्व नित्यं सत्त्वात् । क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं नाऽवस्थां बध्नातीति । ततो निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते । तथाहिक्षणिकोऽर्थः सन्वा कार्यं कुर्याद्, असन् वा । गत्यन्तराऽभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापाराऽयोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्यातिप्रसङ्गाञ्च । नाऽपि द्वितीयः पक्षः क्षोदं क्षमते असतः कार्यकारणशक्तिविकलत्वात् । अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन्, विशेषाऽभावात् इति । - अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति सर्वं क्षणिकं सत्त्वात्, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधाद अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् । ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्त्तयेदिति क्षणिकसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्तयितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमेण प्रवृत्तेः । अन्यथा पूर्वक्रियाकरणाऽविरामप्रसङ्गात्, तत्स्वभावप्रच्यवे च नित्यता प्रयाति । अतादवस्थ्यस्याऽनित्यतालक्षणत्वात् । अथ नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत्, पश्चात् तमासाद्य क्रमेण कार्यं कुर्यादितिचेत् । न, सहकारिकारणस्य नित्येऽकिञ्चित्करत्वात्..
१. अष्टादशे श्लोके । २. 'समकालं' भावानाम् इति क. पुस्तके पाठः । ३. 'क्रमेण' इति क. पुस्तके नास्ति । ४. 'अर्थे' इत्यधिक इ. पुस्तके । (१७०) N
A NDANANA स्याद्वादमञ्जरी)