________________
अकिञ्चित्करस्याऽपि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि योगपद्येन नित्योऽर्थोऽर्थक्रिया कुरुते, अध्यक्षविरोधात्न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा तथाप्याद्यक्षण एव सकलक्रियापरिसमाप्तेद्वितीयाऽऽदिक्षणेषु अकुर्वाणस्याऽनित्यता बलाद् आढौकते । करणाऽकरणयोरेकस्मिन् विरोधाद् इति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्या विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य'ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति । अत्र च नित्याऽनित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाञ्च सामान्यविशेषाद्येकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव' हेतूनुपस्पृशन्तीति परिभावनीयम् । ___ अथोत्तरार्द्ध व्याख्यायतेपरस्परेत्यादि एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वंसन्ते विनाशमुपयान्तीत्येवंशीला: "सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु । हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराऽभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाऽभावाद् अधृष्यमपराभवनीयम् । ‘शक्तार्हे "कृत्याश्च' । इति कृत्यंविधानाद् धर्षितुमशक्यम्, धर्षितुमनर्ह वा-जयति सर्वोत्कर्षेण वर्तते । यथा कश्चिन्महाराजः पीवरपुण्यपरिपाक: परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विषत्सु अयत्नसिद्धनिष्कण्टकत्वं समृद्ध राज्यमुपभुञ्जानः सर्वोत्कृष्टो भवति एवं त्वच्छासनमपि । इति काव्यार्थः ।।२६।।
अनन्तरकाव्ये नित्याऽनित्याद्येकान्तवादे दोषसामान्यमभिहितम् । इदानीं १. आढौकते-प्राप्नोति । २. ध्यान्ध्यं धियः बुद्धेरान्ध्यं-मान्द्यम् । ३. 'उपलक्षणत्वात्तु' इति क. पुस्तके पाठः । ४. सुन्दोपसुन्दनामानौ राक्षसौ द्वौ भ्रातरौ ब्रह्मणः सकाशात् वरं लब्धवन्तौ यत् आवयोर्मृत्युः
परस्परादस्तु नान्यस्मात् । तथेत्युक्ते ब्रह्मणा मतौ तौ त्रिलोकी पीडयामासतुः । अथ देवप्रेषितां तिलोत्तमामुपलभ्य तदर्थ मिथो युध्यमानावम्रियेताम् । एवमेकान्तवादिनः स्वतत्त्वसिद्ध्यर्थ
परस्परं विवदमाना विनश्यन्ति । ततऽश्चानेकान्तवादो जयति । ५. हैमसूत्रम् ५।४।३५। ६. कृत्यः-कृत्यप्रत्ययः । स्याद्वादमञ्जरीsanoranANASANKA १७१)