________________
कतिपयतद्विशेषान् . 'नामग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोवृत्त' तथाविधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोति
नैकान्तवादे सुख-दु:खभोगौ न पुण्य-पापे न च बन्ध-मोक्षौ । दुर्नीतिवादव्यसनाऽसिनैवं परैर्विलुप्तं जगदप्यशेषम् ।।१७।।
एकान्तवादे नित्याऽनित्यैकान्तपक्षाऽभ्युपगमे,न सुखदुःखभोगौ घटेते ।न च पुण्यपापे घटेते,न च बन्धमोक्षौ घटेते । पुनःपुनर्नञः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः । तथाहि-एकान्तनित्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्यते-नित्यस्य हि लक्षणम् अप्रच्युताऽनुत्पन्नस्थिरैकरूपत्वम् । ततो यदा आत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते, तदा स्वभावभेदाद् अनित्यत्वाऽऽपत्या स्थिरैकरूपताहानिप्रसङ्गः । एवं दुःखमनुभूय सुखमुपभुञ्जानस्याऽपि वक्तव्यम् । - अथ अवस्थाभेदाद् अयं व्यवहारः, न चावस्थासु भिद्यमानास्वपि तद्वतो भेदः । सर्पस्येव कुण्डलाऽऽर्जवाद्यवस्थासु इतिचेत् न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा। व्यतिरेके, तास्तस्येति संबन्धाऽभावः, अतिप्रसङ्गात् । अव्यतिरेके तु, तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेऽवस्था- भेदोऽपि भवेदिति । .
किंच, सुखदुःखभोगौ पुण्यपापनिर्वयौ । तनिर्वर्तनं चाऽर्थक्रिया । सा च कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं न पुण्यपापे
१. नामग्रहणपूर्वकम् । २. 'उत्त' इति क. पुस्तके नास्ति । . ३. आर्जवं-सारल्यम् । (१७२iddharthak स्याद्वादमञ्जरी)