________________
इति पुण्यं दानाऽऽदिक्रियोपार्जनीयं शुभं कर्म । पापं हिंसाऽऽदिक्रियासाध्यमशुभं कर्म, ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्धमोक्षो बन्धः कर्मपुद्गलैः सह प्रतिप्रदेशमात्मनो 'वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः । मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । बन्धो हि संयोगविशेषः स च 'अप्राप्तानां प्राप्तिः' इतिलक्षणः । प्राक्कालभाविनी अप्राप्तिरन्याऽवस्था, उत्तरकालभाविनी प्राप्तिश्चाऽन्या । तदनयोरप्यवस्थाभेददोषो दुस्तरः । कथं चैकरूपत्वे सति तस्याऽऽकस्मिको बन्धसंयोगः । बन्धनसंयोगाञ्च प्राक् किं नाऽयं मुक्तोऽभवत् । किञ्च तेन बन्धनेनाऽसौ विकृतिमनुभवति न वा । अनुभवति चेत्, चर्माऽऽदिवद् अनित्यः । नानुभवति चेत्, निर्विकारत्वेसता असता व तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्याद् नित्यमुक्त एव स्यात् । ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था । तथा च पठन्ति
'वर्षातपाभ्यां किं व्योमश्चर्मण्यस्ति तयोः फलम् ? । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फलः' ।।१।। बन्धाऽनुपपत्तौ मोक्षस्याऽप्यनुपपत्तिर्षन्धविच्छेदपर्यायत्वाद् मुक्तिशब्दस्येति ।
एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिःअनित्यं हि अत्यन्तोच्छेदधर्मकम् । तथाभूते चात्मनि, पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत् फलभूतसुखानुभवः । एवं पापोपादानक्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदनमस्तु। एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्ता इति असमञ्जसमापद्यते । अथ 'यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कासें रक्तता यथा' ।।१।।
इति वचनाद् । नासमञ्जसमित्यपि वाङ्मात्रम्, सन्तानवासनयोरवास्तवत्वेन प्रागेव निर्लोठितत्वात्।
तथा पुण्यपापे अपि न घटेते-तयोहि अर्थक्रिया सुखदुःखोपभोगः तदनुपपत्तिश्चाऽनन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाऽभावात् तयोरप्यघटमानत्वम् । १. अग्नेरयोगोलकस्य च संयोगः । स्याद्वादमञ्जरी ANANAANAANANA९७३)