________________
किञ्चाऽनित्यः क्षणमात्रस्थायी । तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादानक्रियाऽर्जनम् द्वितीयाऽऽदिक्षणेषु चाऽवस्थातुमेव न लभते । पुण्यपापोपादानक्रियाऽभावे च पुण्यपापे कुतः । निर्मूलत्वात्, तदसत्त्वे च कुतस्तनः सुखदुःखभोगः । आस्तां वा कथंचिदेतत्, तथापि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् । उपादानाऽनुरूपत्वाद् उपादेयस्य। ततः पूर्वक्षणाद् दुःखिताद् उत्तरक्षणः कथं सुखित उत्पद्येत । कथं च सुखितात् ततः स दुःखितः स्यात्, विसदृशभागताऽऽपत्तेः । एवं पुण्यपापादावपि, तस्माद् यत्-किञ्चिदेतत् ।
एवं बन्धमोक्षयोरप्यसंभवः । लोकेऽपि हि य एव बद्धः स एव मुच्यते । निरन्वयनाशाऽभ्युपगमे चैकाधिकरणत्वाभावात् सन्तानस्य चाऽवास्तवत्वात् कुतस्तयोः संभावनामात्रमपीति । परिणामिनि चात्मनि स्वीक्रियमाणे सर्वं निर्बाधमुपपद्यते
'परिणामोऽवस्थाऽन्तरगमनं न च सर्वथा ह्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः' ।।१।। इति वचनात् । पातञ्जलटीकाकारोऽप्याह
१अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः' इति । एवं सामान्यविशेषसदसदभिलाप्याऽनभिलाप्यैकान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः । - अथोत्तसर्धव्याख्या-एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिनानीयते एकदेशविंशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नयाः, तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिरिव असिः कृपाणो दुर्नीतिवादव्यसनाऽसिः,
१. पातञ्जलयोगसूत्रम् ३।१३। अत्र ग्रन्थकृता 'टीकाकारोऽप्याह' इति यदुक्तं तञ्चिन्त्यम् । यत इदं
पातञ्जलसूत्रम् । मन्मतं तु कस्याऽपि लिपिकारस्य भ्रान्तिरियम् । (१७४KARNA स्याद्वादमञ्जरी