________________
तेन दुर्नीतिवादव्यसनाऽसिना करणभूतेन दुर्नयप्ररूपणहेवाकखड्गेन, एवमित्यनु- . भवसिद्धं प्रकारमाह- अपिशब्दस्य भिन्नक्रमत्वाद् अशेषमपि जगद् निखिलमपि त्रैलोक्यम् । "तात्स्थ्यात् तद्वयपदेशः' इति त्रैलोक्यगतजन्तुजातम् । विलुप्तं सम्यग्ज्ञानाऽऽदिभावप्राणव्यपरोपणेन व्यापादितम्, तत् त्रायस्व इत्याशयः ।
सम्यग्ज्ञानाऽऽदयो हि भावप्राणाः प्रावचनिकैर्गीयन्ते । अत एव सिद्धेष्वपि जीवव्यपदेशः । अन्यथा हि जीवधातुः प्राणधारणार्थेऽभिधीयते, तेषां च . दशविधप्राणधारणाऽभावाद् अजीवत्वप्राप्तिः । सा च विरुद्धा, तस्मात् संसारिणो "दशविधद्रव्यप्राणधारणाद् जीवाः, सिद्धाश्च ज्ञानाऽऽदिभावप्राणधारणाद् इति सिद्धम्। दुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यास्यामः । इति काव्यार्थः ।।२७।।
साम्प्रतं दुर्नय-नय-प्रमाणप्ररूपणद्वारेण 'प्रमाणनयैरधिगमः' इति वचनाद् जीवाजीवादितत्त्वाऽधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यं वचनातिशयं स्तुवन्नाह
सदेव सत् स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीति-नय-प्रमाणैः। यथार्थदर्शी तु नय-प्रमाण- . . पथेन दुर्नीतिपथं त्वमास्थः ||२८||
अर्यते परिच्छिद्यत इति अर्थः, पदार्थः त्रिधा त्रिभिः प्रकारैः मीयेत १. 'मञ्चाः क्रोशन्ति' इतिवत् । यथात्र मञ्चपदेन मञ्चस्था गृह्यन्ते लक्षणया तद्वदत्र त्रैलोक्यपदेन
त्रैलोक्यस्थं जन्तुजातं गृह्यन्ते । व्यपदेशः-संज्ञा । २. सम्यक्ज्ञानसम्यग्दर्शनसम्यक्चारित्रेत्यादयो ये जीवस्य गुणास्ते. भावप्राणाः । इदं प्रज्ञापनासूत्रे
प्रथमपदे । ३. प्रवचनकारिभिः पूर्वाचार्यः । ४. जीव् प्राणधारणे । हैमधातुपारायणे भ्वादिगणे धा. ४५६ । ... पञ्चेन्द्रियाणि ६ श्वासोच्छ्वास ७ आयुष्य ८ मनोबल ९ वचनबल १० शारीरबलानीति दश
द्रव्यप्राणाः । शान्तिसूरिकृतजीवविचारः गाथा ४२ । ६. तत्वार्थसूत्रप्रथमाध्यायसूः ६ । ७. अतःपरं 'तेषाम्' इत्यधिक ह. पुस्तके । स्याद्वादमञ्जरी
A nnarshini१७५)