________________
परिच्छेद्येत । विधौ 'सप्तमी । कैत्रिभिः प्रकारैः, इत्याह । दुर्नीतिनय-प्रमाणे:नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः । दुष्टा नीतयो दुर्नीतयो दुर्नया इत्यर्थः । नया नैगमादयः, प्रमीयते परिच्छेद्यते ऽर्थोऽनेकान्तविशिष्टोऽनेन इति प्रमाणम् । स्याद्वादाऽऽत्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुर्नीतयश्च नयाश्च प्रमाणे च दुर्नीतिनयप्रमाणानि तैः । केनोल्लेखेन मीयेत, इत्याह-सदेव सत् स्यात्सद् इति । सदिति अवक्तव्यत्वाद् नपुंसकत्वम् । यथा किं तस्या गर्भ जातमिति । सदेवेति दुर्नयः सदिति नयः, स्यात्सदिति प्रमाणम् । तथाहिदुर्नयस्तावत्सदेव इति ब्रवीति-'अस्त्येव घटः' इति । अयं वस्तुनि एकान्ताऽस्तित्वमेव अभ्युपगच्छन् इतरधर्माणां तिरस्कारेण स्वाऽभिप्रेतमेव धर्मं व्यवस्थापयति । दुर्नयत्वं चाऽस्य मिथ्यारूपत्वात्, मिथ्यारूपत्वं च तत्र धर्माऽन्तराणां सतामपि निहवात् ।
१.. इयं च हैमव्याकरणप्रसिद्धा लिङ्लकारस्य संज्ञा । . २. 'अपलापस्तु निह्नवः इति अभिधानचिन्तामणौ द्वितीयकाण्डे १९० श्लोकः ।
निहवाः सप्त-१ बहुरता: २ जीवप्रादेशिकाः ३ अव्यक्तिकाः ४ सामुच्छेदिकाः ५ द्वैक्रियाः ६ त्रैराशिका: ७ अबद्धिकाः । १ एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रताः सक्ता बहुरताः दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः ।.ते च श्रीवीरकेवलात् १४ वर्षर्जमालिप्रभृतयः श्रीवस्तीनगरे समुत्पन्नाः । २ जीवः प्रदेश एष येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः । अथवा- जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते । तथा चरमप्रदेशजीवप्ररूपिण इति हृदयम् । ते च श्रीवीरकेवलात् १६ वर्षस्तिष्यगुप्तप्रभृतयः ऋषभपुरे समुत्पन्नाः । ३ अव्यक्तमस्फुटं वस्तु अभ्युपगमतो.विद्यते येषां ते अव्यक्तिकाः । संयताद्यवगमे सन्दिग्धबुद्धय इति भावना । अव्यक्तवादी । ते श्रीवीरनिर्वाणात् २१४ वराषाढप्रभृतयः श्वेतविकानगरे समुत्पत्राः ४ समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाशः । समुच्छेदं ब्रुवत इति सामुच्छेदिकाः क्षणक्षयिकभावप्ररूपकाः- शून्यवादीत्यर्थः । ते श्रीवीरनिर्वाणात् २२० वर्षेः अश्वमित्रादयः मिथिलानगर्यां समुत्पन्नाः । ५ द्वै क्रिये समुदिते द्विक्रियं, तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाऽभेदेन क्रियाद्वयाऽनुभवप्ररूपिणः-एकस्मिन् समये द्विक्रियावेदकाः । ते श्रीवीरनिर्वाणात् २२८ वर्षेः गङ्गादयः उल्लुकातीरे समुत्पन्नाः । ६ जीवाजीवनोजीवभेदात् त्रयो राशयः समादृताः त्रिराशिः, तत्प्रयोजनं येषां ते त्रैराशिकाः राशित्रयाख्यापकाः नोजीवस्थापका इत्यर्थः । ते श्रीवीरनिर्वाणत् ५४४ वर्षः रोहगुप्तप्रभृतयः पुरमन्तरंजिकायां समुत्पन्नाः । ७ स्पृष्टं जीवेन कर्म न स्कन्धबन्धबद्धद्रुमबद्धं, तदेषामस्तीत्यबद्धिकाः, स्पष्टकर्मविपाकप्ररूपका इति हृदयम् । ते श्रीवीरनिर्वाणात् ५८४ वर्षेः गोष्टामाहिलाः दशपुरे समुत्पन्नाः ।
(१७६AR
RRRRRR स्याद्वादमञ्जरी