________________
तथा सद्' इति उल्लेखनात्नयः, सहि अस्ति घटः' इति घटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु गजनिमीलिकामालम्बते । न चाऽस्य दुर्नयत्वं, धर्मान्तराऽतिरस्कारात् । न च प्रमाणत्वं स्याच्छब्देन अलाञ्छितत्वात् ।
स्यात्सदिति- स्यात्कथञ्चित्, सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चाऽस्य दृष्टेष्टाऽबाधितत्वाद् विपक्षे बाधकसद्भावाच्च । सर्वं हि वस्तु स्वरूपेण सत्, पररूपेण चासद् इति असकृदुक्तम् । सदिति दिङ्मात्रदर्शनार्थम् । अनया दिशा असत्त्वनित्यत्वाऽनित्यत्व-वक्तव्यत्वाऽवक्तव्यत्व-सामान्य-विशेषादि अपि बोद्धव्यम् । .
इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह-यथार्थदर्शी इत्यादि । दुर्नीतिपथं दुर्नयमार्गम् । तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थाः । त्वमेव निराकृतवान्, न तीर्थाऽन्तरदेवतानि । केनं कृत्वा, नय-प्रमाणपथेन, नयप्रमाणे उक्तस्वरूपे तयोर्मार्गेण प्रचारेण । यतस्त्वं यथार्थदर्शी । यथार्थोऽस्ति तथैव पश्यतीत्येवंशीलो यथार्थदर्शी । विमलकेवलज्योतिषां यथावस्थितवस्तुदर्शी । तीर्थाऽन्तरशास्तारस्तु रागादिदोषकालुष्यकलङ्कितत्वेन यथाविधज्ञानाऽभावाद् न यथार्थदर्शिनः । ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः । न हि स्वयमनयप्रवृत्तः परेषामनयं निषे मुद्धरतां धत्ते । इदमुक्तं भवति- यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषश्चौरश्वापद-कण्टकाद्याकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोभयविकलं दोषाऽस्पृष्टं गुणयुक्तं च मार्गमुपदर्शयति, एवं जगन्नाथोऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्ग प्ररूपयतीति ।
१. गजनिमीलका ऽष्टादशवृत्ते द्रष्टव्या । २. लांच्छितं-चिह्नितम् । ३. तपस्विनः-वराकाः । ४. तद्धरता-प्रागल्भ्यम् । ५. भवति परमपदयोग्यतामासादयतीति भव्यः सिद्धिगमनयोग्यः ।
स्याद्वादमञ्जरी Kakkakakakak
१७७