________________
आस्थ इति अस्यतेर द्यतन्यां शास्त्यसूवक्तिख्यातेरङ्' इत्याङि '४श्वयत्यसूवचपत: श्वास्थवोचपप्तम्' इति अस्थादेशे "स्वरादेस्तासु' इति वृद्धौ रूपम्.।
मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाऽङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनयोगमहानगरस्य द्वाराणि । उपक्रमः, निपेक्षः अनुगमः, नयश्चेति । एतेषां च स्वरूप मावश्यकभाष्या देनिरूपणीयम्, इह तु नोच्यते ग्रन्थगौरवभयात् । अत्र चैकत्र कृतसमासान्तः पथिन्शब्दः अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति । ..
अथ दुर्नय-नय-प्रमाणस्वरूपं किञ्चिनिरूप्यते । तत्राऽपि प्रथमं नयस्वरूपं; तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्याऽवबोधनार्थः कृतः । तत्र प्रमाण-प्रतिपन्नाथैकदेशपरामर्शो नयः । अनन्तधर्माध्यासितं वस्तु स्वाऽभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारोहयति इति नय:प्रमाणप्रवृत्तेरूत्तरकालभावी परामर्श इत्यर्थः ।
नयाश्चानन्ता अनन्तधर्मत्वात् वस्तुनः । तदेकधर्मपर्यवसितानां
१. हैमधातुपारायणे दिवादिगणे ७८ धातुः । २. अद्यतनीति हैमव्याकरणे लङ्लकारस्य संज्ञा । ३. हैमसूत्रम् ३।४।६० ४. हैमसूत्रम् ४।३।१०३ ५. हैमसूत्रम् ४।४।३१ ६. विशेषावश्यकभाष्य गाथा.९११।९१२ ।९१३।९१४ तथा गाथा १५०५ तः परम् । (चतुर्षु मूलसूत्रेष्विदं
प्रथममावश्यकसूत्र-तन्मूलसंख्या १२५ । तत्राध्ययनषटकं, तत्र प्रथमाध्ययनं सामायिकाख्यं तद्भाष्यं विशेषावश्यकभाष्यं श्रीजिनभद्रगणिक्षमाश्रमणकृतं, श्लोकसंख्या ५००० । तत्र मलधारिश्रीहेमचन्द्रसूरिकृता बृहद्वृतिः । ग्रन्थसंख्या १८००० । तत्र वृत्तौ जैनस्थापनाचार्यकृता
टीका । तथा भाष्योपरि द्रोणाचार्यकृता लघुवृत्तिः । ग्रन्थसंख्या १४०००) ७. 'अवसेयम्' इति क. पुस्तके पाठः ।
(१७८RATRAILER
स्याद्वादमञ्जरी