________________
वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धा: - " जावइआ वयणपहा तावइआ चेव हुंति नयवाया' इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा - नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूता इति । कथमेषां सर्वसंग्राहकत्वमिति चेत्, उच्यते । अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराऽभावात् । तत्र ये केचनाऽर्थनिरुपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽपि आद्ये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति ।
तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यंत्वगुणत्व- कर्मत्वाऽऽदीनि । तथाऽन्त्यान् विशेषान् सकलाऽसाधारणरूपलक्षणान्, अवान्तरविशेषांश्चाऽपेक्षया पररूपव्यावर्त्तनक्षमान् सामान्यात् अत्यन्तविनिर्लुठितस्वरूपानभिप्रैति । इदं च 'स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः । ४प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यश्चायम् ।
संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एत सामान्यैकान्तवादे “प्राक् प्रपञ्चितम् ।'
व्यवहारस्त्वेवमाह यथा 'लोकग्राहमेव वस्तु अस्तु । किमनया अदृष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया । यदेव च लोकव्यवहारपथमवतरति तस्यैवाऽनुग्राहकं प्रमाणमुपलभ्यते । नेतरस्य । न हि सामान्यमनादिनिधनमेकं संग्रहाऽभिमतं प्रमाणभूमिः । तथाऽनुभवाऽभावात् । सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च । नाऽपि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथा प्रवृत्तेरभावात् । तस्माद् इदमेव निखिललोका बाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलतामाबिभ्राणमुदकाद्याहरणाद्यर्था क्रियानिर्वर्तनक्षमं घटादिकं वस्तुरूपं
१. यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । इति छाया ।
२. चतुर्थश्लोकः ।
३. 'जल्पितम्' इति क पुस्तके पाठः ।
४. अनुयोगद्वारसूत्रं १४५ व्याख्या श्रीमलयगिरिकृता
५. चतुर्थपञ्चमश्लोकयोः ।
६. लोके यथा प्रसिद्धं तथा ।
स्याद्वादमञ्जरी
४. १७९