________________
पारमार्थिकम् । पूर्वोत्तरकालभावितपर्यायपर्यालोचना 'पुनरज्यायसी । तत्र प्रमाणप्रसराऽभावात् । प्रमाणमन्तरेण विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाञ्च तेषां किं तद्गोचरपर्यालोचनेन । तथाहि पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमामुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् । अत एव ‘पन्था गच्छति, गुण्डिका स्रवति, गिरिदह्यते, मञ्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च 'वाचकमुख्यः-'लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः' इति ।
ऋजुसूत्रः पुनरिदंमन्यते वर्तमानक्षणविवत्येव वस्तुरूपम् । नातीतमनागतं च । अतीतस्य विनष्टत्वाद्, अनागतस्याऽलब्धाऽऽत्मलाभत्वात् खरविषाणाऽऽदिभ्योऽविशिष्यमाणत्या सकलशक्तिविरहरूपत्वाद् नार्थक्रियानिर्वर्तनक्षमत्वम् । तदभावाञ्च न वस्तुत्वं 'यदेवाऽर्थक्रियाकारि तदेव परमार्थसत्' इति वचनात् । वर्तमानक्षणाऽऽलिङ्गितं पुनर्वस्तुरूपं समस्ताऽर्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् । तदपि च निरंशंमभ्युपगन्तव्यम् । अंशव्याप्तेर्युक्तिरिक्तत्वात् । एकस्य अनेकस्वभावतामन्तरेण अनेकस्यावयवव्यापनाऽयोगात् अनेकस्वभावता एवास्तु इति चेद् । न, विरोधव्याघ्राघ्रातत्वात् । तथाहि-यदि एकः स्वभावः कथमनेकः । अनेकश्चेत्कथमेकः । एकाऽनेकयोः परस्परपरिहारेणाऽवस्थानात् । तस्मात् स्वरूपनिमग्नाः परमाणव.एव परस्परोपसर्पणद्वारेण कथंनिचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं,न स्थूलतां धारयत्. पारमार्थिकमिति । एवमस्याऽभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न परकीयम्, अनुपयोगित्वादिति ।
शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दराऽऽदयः सुरपती, तेषां सर्वेषामप्येकमर्थमभिप्रेति किल प्रतीतिवशाद् । यथा शब्दाऽव्यतिरेकोऽर्थस्य प्रतिपाद्यते । तथैव तस्यैकत्वमनेकत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र-पुरन्दरादयः पर्यायशब्दा विभिन्नाऽर्थवाचितया कदाचन प्रतीयन्ते । तेभ्यः सर्वदा एकाकारपरामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दानामर्थ इति । शब्द्यते
१. अश्रेयसी । २. तत्त्वार्थधिगमसूत्र १।३५ भाष्ये ।
(१८OAAAAAAAAAAAAA स्याद्वादमञ्जरी)