________________
आहूयतेऽनेनाऽभिप्रायेणाऽर्थ:, इति निरुक्तात् एकार्थप्रतिपादनाऽभिप्रायेणैव पर्यायध्वनीनां प्रयोगात् । यथा चायं पर्यायशब्दानामेकमर्थमभिप्रैति, तथा 'तटस्तटी तटम्' इति विरुद्धलिङ्गलक्षण-धर्माऽभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्माऽयोगो युक्तः । एवं सङ्ख्याकालकारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः । तत्र सङ्ख्या एकत्वादिः, कालोऽतीतादिः, कारकं कर्त्रादि, पुरुषः, प्रथमपुरुषादिः ।
समभिरूढस्तु-पर्यायशब्दानां प्रविभक्तमेवाऽर्थमभिमन्यन्ते । तद्यथा-इन्दनात् इन्द्रः । परमैश्वर्यम्- इन्द्रशब्दवाच्यं परमार्थस्तद्वत्यर्थे । अतद्वत्यर्थे पुनरुपचारतो `वर्तते, न वा कश्चित् तद्वान् । सर्वशब्दानां परस्परविभक्ताऽर्थप्रतिपादितया आश्रयाऽऽश्रयिभावेन प्रवृत्त्यसिद्धेः । एवं शकनात् शक्रः पूर्वारणात् पुरन्दर इत्यादि भिन्नाऽर्थत्वं सर्वशब्दानां दर्शयति । प्रमाणयति च पर्यायशब्दा अपि 'भिन्नाऽर्थाः प्रविभक्तव्युत्पत्तिनिमित्तकत्वात् । इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नाऽर्थकाः । यथा इन्द्र - पशु - पुरुषशब्दा: । विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नाऽर्था इति ।
I
एवंभूतः पुनरेवं भाषते-यस्मिन् अर्श्वे, शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थों यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् एवं घटोऽभिधीयते । न शेषः । घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवद् इति । अतीतां भाविनीं वा चेष्टामङ्गीकृत्य सामान्येनैवोच्यत इति चेद् / न, तयोर्विनष्टाऽनुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्द्वारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाऽभावात् । किञ्च यदि अतीत-वर्त्स्यचेष्टाऽपेक्षया घटशब्दोऽ चेष्टावत्यपि प्रयुज्येत तदा कपालमृत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्याद्, विशेषाऽभावात् । तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव 'सोऽर्थस्तच्छब्दवाच्य इति ।
अत्र संग्रह श्लोका:
'अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्वं संगृह्णन् संग्रहो मतः ।।२।।'
१. 'चेष्टावत्यपि प्रयुज्यते' इति क पुस्तके पाठः ।
स्याद्वादमञ्जरी
ॐ ॐ ॐ ४ १८१