________________
पूजादिनाऽराद्धोऽन्यश्च निन्दादिना विराद्धः, ततश्चेकेनैव मुखेन युगपदनुग्रहनिगहवाक्योच्चारणसङ्करः प्रसज्येत । अन्यच्च मुखं देहस्य नवमो भागः, तदपि येषां दाहात्मकं, तेषामेकैकशः सकलदेहस्य दाहाऽऽत्मकत्वं त्रिभुवनभस्मीकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया । ... यश्च कारीरीयज्ञादौ वृष्ट्यादिफलेऽव्यभिचारस्तत्प्रीणितदेवतानुग्रहहेतुक उक्त:सोऽप्यनैकान्तिकः । क्वचिद् व्यभिचारस्याऽपि दर्शनात् । यत्राऽपि न व्यभिचारस्तत्राऽपि न त्वदाऽऽहिताऽऽहुतिभोजनजन्मा तदनुग्रहः, किन्तु स देवताविशेषोऽतिशयज्ञानी स्वोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानाऽवस्थितः सन् जानीते, तदा तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस्तत्तत्कार्याणीच्छावशात् साधयति । अनुपयोगादिना पुनरजानानो जानानोऽपि वा पूजाकर्तुरभाग्यसहकृत्तः सन् न साधयति । द्रव्यक्षेत्रकालभावादिसहकारिसाचिव्याऽपेक्षस्यैव कार्योत्पादस्योपलम्भात् । स च पूजोपजार: पशुविशसनव्यतिरिक्तैः प्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया सौनिकवृत्त्या ? । ___यच्च छगलजाङ्गहोमात् परराष्ट्रवशीकृतिसिद्ध्या देव्याः परितोषाऽनुमानम्, तत्र कः किमाह ? कासाञ्चित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात् केवलं तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो, न पुनस्तदुपभुक्तया । निम्बपत्रकटुकतैला२रनाल धूमांशादीनां हूयमानद्रव्याणामपि तद्भोज्यत्वप्रसङ्गात् । परमार्थतस्तु तत्तत्सहकारिसमवधानसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति। अचेतने चिन्तामण्यादौ तथा दर्शनात् । अतिथीनां तु प्रीति: संस्कारसंपन्नपक्वान्ना-ऽऽदिनाऽपि साध्या । तदर्थ महोक्षमहाजाऽदिप्रकल्पनं निर्विवेकतामेव ख्यापयति ।
पितृणां पुनः प्रीतिरनैकान्तिकी । श्राद्धाऽऽदिविधानेनाऽपि भूयसां सन्तानवृद्धरनुपलब्धेः । तदविधानेऽपि च केषाञ्चिद् गर्दभशूकराजादीनामिव सुतरां तदर्शनात् । ततश्च श्राद्धाऽऽदिविधानं मुग्धजनविप्रतारणमात्रफलमेव । ये हि लोकाऽन्तरं प्राप्तास्ते तावत् स्वकृतसुकृत- दुष्कृतकर्माऽनुसारेण सुरनारकादिगतिषु
१. 'तत्कार्याणि' इति च. पुस्तके पाठः । २. आरनल:-तन्दुलजातिविशेषः । ३. धूमांशः-सालवृक्षः । ‘साग' इति भाषायाम् ।
स्याद्वादमञ्जरी)
AIRNainition७३)