________________
यच्च याज्ञिकानां लोकपूज्यत्वोपलम्भादित्युक्तम् । इदमप्यसारम् । अबुधा एव पूजयन्ति तान् न तु विविक्तबुद्धयः । अबुधपूज्यता तु न प्रमाणम् । तस्याः सारमेयादिष्वप्युपलम्भात् । यदप्यभिहितं- देवतातिथिपितृप्रीतिसंपादकत्वाद् वेदविहिता हिंसा न दोषायेति । तदपि वितथम् । यतो देवानां संकल्पमात्रोपनताऽभि- मताऽऽहारपुद्गलरसाऽऽस्वादसुहितानां वैक्रियशरीरत्वाद् युष्मदावर्जितजुगुप्सि- तपशुमांसाद्याहुतिप्रगृहीतो, इच्छै व दु:संभवा ।
औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् । प्रक्षेपाहारस्वीकारे च देवानां मन्त्रमयदेहत्वाभ्यपग़मबाधः । न च तेषां मन्त्रमयदेहत्वं भवत्पक्षे न सिद्धम् । 'चतुर्थ्यन्तं पदमेव देवता' इति जैमिनिवचनप्रामाण्यात् । तथा च मृगेन्द्रः
'शब्देतरत्वे, “युगपद् भिन्नदेशेषु यष्टषु । . न सा प्रयाति सांनिध्यं मूर्तत्वादस्मदादिवत्' ।।१।। सेति-देवता । . ..
हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात्, तदुपभोगजनिता देवानां प्रीतिः प्रलापमात्रम् । अपि च, योऽयं त्रेताग्निः-स त्रयस्त्रिंशत्कोटिदेवतानां मुखम्; अग्निमुखा वै देवाः' इति श्रुतेः । ततश्चोत्तममध्यमाऽधमदेवानामेकेनैव मुखेन भुञ्जानानामन्योन्योच्छिष्टभुक्तिप्रसङ्गः । तथा च ते 'तुरुष्केभ्योऽप्यतिरिच्यन्ते । तेऽपि तावदेकत्रैवाऽमत्रे भुञ्जते, न पुनरेकेनैव वदनेन । किञ्च एकस्मिन् वपुषि वदनबाहुल्यं वचन श्रूयते, यत्पुनरनेकशरीरेष्वेकं मुखमिति महदाश्चर्यम् । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽकृते, यदा केनचिदेको देवः
१. 'तदप्यरम्' इति ह. पुस्तके पाठः । २. 'यथा, इति ख. पुस्तके पाठः । ३/४.विस्तरस्तुतत्त्वार्थे. २-४९ द्रष्टव्यः । . ५. देवताः शब्दमयाः । अस्मदादिवत्तेषां मूर्तिस्वीकारे युगपत्सकलयज्ञेषु गमनाऽसंभव इत्यर्थः । ६. (१) दक्षिणाग्निः (२) आहवनीयः (३) गार्हपत्य इति त्रयोऽग्नयः । 'अग्नित्रयमिदं त्रेता' इत्यमरः । ७. आश्व. गृ. सू. अ. ४ . ८. तुरुष्काः -यवनाः । ९. अमत्रं-पात्रम् ।
(७२NAKAMANAKAMANA स्याद्वादमञ्जरी