SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ न च वेदनिवेदिता हिंसा न कुत्सिता । सम्यग्दर्शनज्ञानसम्पन्नै रचिर्मार्गप्रपन्नवेदान्तवादिभिश्च गर्हितत्वात् । तथा च तत्त्वदर्शिनः पठन्ति 'देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम्' ।।१।। वेदान्तिका अप्याहुः'अन्धे तमसि मजामः पशुभिर्ये यजामहे । हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति' ।।१।। तथा 'अग्निर्मातस्माद्धिंसाकृतादेनसो मञ्चतु छान्दसत्वाद् मोचयतु इत्यर्थः । इति । व्यासेनाप्युक्तम्:'ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाऽम्भसि । स्नात्वाऽतिविमले तीर्थे पापपङ्काऽपहारिणि ।।१।। ध्यानाऽग्नौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ।।२।। कषायपशुभिर्दुष्टैर्धर्मकामाऽर्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि, विहितं बुधैः ।।३।। प्राणिघातात् तु यो धर्ममीहते मूढमानसः । सं वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात् ।।४।। इत्यादि । १. 'अचिर्मार्गः' (७९) पृष्ठे टिपन्यां द्रष्टव्यः । २. 'यथा' इति ख. पुस्तके पाठः । - - स्याद्वादमञ्जरी ७१
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy