________________
प्राप्तिः, तदा परिचिंतस्पष्टचैतन्यपरमोपकारिमातापित्रादिव्यापादनेन यज्ञकारिणामधिकतरपदप्राप्तिः प्रसज्यते ।अथ अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति वचनाद् वैदिकमन्त्राणामचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधे संभवत्येव स्वर्गप्राप्तिः, इतिचेत् । न । इह लोके विवाहगर्भाऽऽधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाद्-अदृष्टे स्वर्गादावपि तद्व्यभिचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहादिभ्योऽनन्तरं वैधव्याऽल्पाऽऽयुष्कतादारिद्र्याधुपद्रवविधुराः परःशताः । अपरेचमन्त्रसंस्कारं विनाकृतेभ्योऽपितेभ्योऽनन्तरं तद्विपरीताः अथ तत्र क्रियावैगुण्यं विसंवादहेतुः, इतिचेत् । न । संशयाऽनिवृत्तेः । किं तत्र क्रियावैगुण्यात्.फले विसंवादः, किंवा मन्त्राणामसामर्थ्याद् ? इति न निश्चयः । तेषां फलेनाऽविनाभावाऽसिद्धेः । . .
· अथ यथा युष्मन्मते 'आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु' इत्यादीनां वाक्यानां लोकान्तर एव फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न.प्रतिपद्यते ?. इतश्च विवाहाऽऽदौं नोपलम्भाऽवकाशः, इतिचेत् । अहो ! वचनवैचित्री यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम्, एवं द्वितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तभवानुसन्धानं प्रसज्यते । एवं च नं कदाचन संसारस्य परिसमाप्तिः । तथा चनकस्यचिदपवर्गप्राप्तिः । इति प्राप्तं भवदभिमतवेदस्यपर्यवसितसंसारवल्लरीमूलकन्दत्वम् । आरोग्याऽऽदिप्रार्थना तुअसत्याऽमृषाभाषापरिणामविशुद्धिकारणत्वाद् न दोषाय, तत्र हि-भावाऽऽरोग्यादिकमेव विवक्षितम्, तञ्च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरुपत्वाद् उत्तमफलम् । तद्विषया च प्रार्थना कथमिव विवेकिनामनादरणीया । न च तज्जन्यपरिणामविशुद्धस्तत्फलं न प्राप्यते । सर्ववादिनां भावशुद्ध रपवर्गफलसम्पादनेऽविप्रतिवत्तेरिति ।
१. आवश्यकसूत्रचतुर्विशतिस्तवाध्ययनमूलसूत्रगाथा ६ । छाया-आरोग्यं बोधिलाभं समाधिवरमुत्तमं
ददतु । २. 'अतश्च' ख. क. ह. रा. पुस्तकेषु पाठः । ३. नारक १ तिर्यक् २ मानुष ३ देव ४ इति गतिचतुष्टयम् ।
(७०inik
स्याद्वादमञ्जरी