________________
वैदिकवधविधाने तु न कञ्चित्पुण्याऽर्जनाऽनुगुणं गुणं पश्यामः ।अथ विप्रेभ्यः पुरोडाशादिप्रदानेन 'पुण्यानुबन्धी गुणोऽस्त्येव इति चेत् ।न /पवित्रसुवर्णादिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थं मांसदानं केवलं निघृणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पशुवधक्रियायाः फलं, किन्तु भूत्यादिकम्। यदाह श्रुति:'श्वेतं वायव्यमजमालभेत भूतिकामः' इत्यादि ।एतदपि व्यभिचारपिशाचग्रस्त्वादप्रमाणमेव । भूतैश्चौपयिकान्तरैरपि साध्यत्वात् ।अथतत्र सत्रे हन्यमानानां छागादीनां प्रेत्य सद्गतिप्राप्तिरूपोऽस्त्येवोपकार इतिचेत् । वाङ्मात्रमेतत्। प्रमाणाभावात् । न हि ते निहताः पशवः सद्गतिलाभमुदितमनसः कस्मैचिदागत्य तथा भूतमात्मानं कथयन्ति ।अथास्त्यागमाख्यं प्रमाणम् । यथा-. . . .
'५औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । : यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः' ।।१।। इत्यादि । नैवम् । तस्य पौरुषेयाऽपौरुषेयविकल्पाभ्यां निराकरिष्यमाणत्वात् ।
न चश्रौतेन विधिना पशुविशसनविधायिनां स्वर्गाप्तिरुऽऽपकार इतिवाच्यम् । यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यात्, तर्हि बाढं पिहिता नरकपुरप्रतोल्यः । सौनिकादीनामपि स्वर्गप्राप्तिप्रसङ्गात् । तथा च पठन्ति परमार्षा:
'यूपं रित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ?' ॥१॥ किञ्च, अपरिचिताऽस्पष्टचैतन्याऽनुपकारिपशुहिंसनेनाऽपि यदि त्रिदिवपदवी
१. 'पुण्यानुगुण' इति घ. पुस्तके पाठः । . २. पुरो दाश्यते इति पुरोडाशो हुतद्रव्यावशिष्टम् । ३. पुष्पावहः । ४. 'साध्यमानत्वात्' इति घ. ह. रा. पुस्तकेषु पाठः । ५. हेमचन्द्रकृतयोगशास्त्रे परिगृहीतः श्लोकः । ६. प्रतोल्यः-मार्गाः । ७. 'पारमर्षाः' इति क. ख. ह. पुस्तकेषु पाठः । स्याद्वादमञ्जरी) dhun i
k
PR)