________________
'पुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो । तविसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ।।१।। एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई । इत्तो निव्वाणगया अबाहिया आभवमिमाणं ॥२॥ . रोगिसिरोवेहो इव सुविजकिरिया व सुपउत्ताओ । परिणामसुंदरचिय चिठ्ठा से बाहजोगे वि' ।।३।। इति ।
१. छाया-पृथिव्यादीनां यद्यपि भवत्येव विनाशो जिनालयादिभ्यः तद्विषयाऽपि सुदृष्टेनियमतोऽस्त्य
नुकम्पा ।।१।। एताभ्यो बुद्धा विरता रक्षन्ति येन पृथिव्यादीन् । अतो निर्वाणगता अबाधिता आभवमेषाम् ।।२।। रोगिशिरावेध इव सुवैद्यक्रिया इव सुप्रयुक्ता तु । परिणामसुन्दर इव चेष्टा सा बाधायोगेऽपि ।।३।। इमा गाथा जिनपतिसूरिकृतपञ्चलिङ्गीग्रन्थे ५८।५९।६० । इत्यत्र लभ्यन्ते । अत्र टीका ननु महानयं जिनगृहाद्यारम्भस्तत्र चावश्यंभावी पृथिव्याधुपमर्दस्तथा चानुकम्पाऽभाव इत्याशङ्कय तान् समर्पयितुमाह-पृथ्व्यम्बुतेजोवायुवनस्पतित्रस-लक्षणानां षट्जीवनिकायानां यद्यपि बहुरवधारणं भवत्येव जायेतैव विनाशो विध्ांसः । भूखननेष्टकापाकजलसेकादेरवश्यं तत्रभवान् जिनालयान् अर्हद्भवनादिनिर्मापणात् तथापि तद्विषयापि विनश्यत्पृथ्व्यादिगोचरा अपि सुदृष्टेः सम्यग्दृशस्तु निर्धापयतु नियमात्रिश्चयेनास्तु व इति अनुकंपारक्षणाभिप्राय इति गाथार्थः ।।५८।। अथ तादृशं जीवोपम प्रत्यक्षेण पश्यन् कथं तस्यानुकम्पां प्रतीमेत्यत आह-एतस्माद् जिनवसत्यादिदर्शनाद् बुद्धास्तत्त्वज्ञानेन प्राप्तसम्यक्त्वाविरता चारित्राचारकर्मक्षयोपशमेन प्रतिपन्नचारित्राः सन्तो रक्षन्ति न हिंसन्ति येन यस्मात्कारणात् पृथिव्यादीन् जन्तून् । ततः किमित्याह इतोऽस्मात् पृथिव्यादिरक्षणरूपचारित्रानिर्वाणगता मुक्ति प्राप्ताः सन्तोऽबाधका रक्षका भवन्तीति शेषः। आभवमासंसारं ईमानन्ति-एषां जिनालयाधुपयुज्यमानानामन्येषां च पृथिव्यादीनाम् इति कथं तत्त्वतो जिनालयादिकारयितुस्तेष्वनुकम्पा नास्तीति गाथार्थः ।५९। एतदेव दृष्टान्तद्वयोपदर्शनेन द्रढयन्नाह-रोगेण रक्तविकाराऽऽदिना व्याधितस्य शिरोवेध इव रुधिराकर्षणाय शास्त्रेण नाडीव्यध इव वस्तुवैद्यक्रिये च वा प्रधानवैद्यचिकित्से वस्तुप्रयुक्ता निर्व्याजं प्रयुक्ता । वा समुचये । परिणामसुन्दर एवागामिनी काले सुखावह एव चेष्टा जिनालयादिनिर्माणारम्भक्रिया भवतीति शेषः । से इति । तस्य सम्यादृष्टेबर्बाधायोगेऽपि आपाततो रोगिणः पीडासद्भावेऽपि देवगृहादौ तु पृथिव्याधुपमर्दसंभवेऽपि । इति गाथार्थः ।।६० ।।
(६८ A
nimukamuk स्याद्वादमञ्जरी