________________
अथ तेषां वधानन्तरं देवत्वाऽऽपत्तिर्भावान्तरमस्त्येवेति चेत्-किमत्र प्रमाणम् ? । न तावत् प्रत्यक्षम्-तस्य संबद्धवर्तमानार्थग्राहकत्वात्-"सम्बन्धं वर्तमानं च गृह्यते चक्षुरादिना ।' इति वचनात् । नाप्यनुमानम्-तत्प्रतिबद्धलिङ्गानुपलब्धेः । नाप्यागमः-तस्याऽद्याऽपि विवादास्पदत्वात् । अर्थापत्त्युमानयोस्त्वनुमानान्तर्गततया तद्रूषणेनैव 'गतार्थत्वम् ।
अथ भवतामपि जिनायतनादिविधाने परिणामविशेषात् पृथिव्यादिजन्तुजातघातनमपि यथा पुण्याय कल्प्यते इति कल्पना । तथा अस्माकमपि किं मेष्यते ? ।
वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात् । नैवम् । परिणामविशेषोऽपि स एव शुभफलो, यत्राऽनन्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमित- सुकृत्तसंप्राप्तिः, न पुनरितरः । भवत्पक्षे तु सत्स्वपि तत्तच्छ्रुतिस्मृति- पुराणेतिहासप्ततिपादितेषु यमनियमादिषु स्वर्गाऽवाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रतिप्रतीकं कर्तनकदर्थनया "कान्दिशीकान् कृपणपञ्चेद्रियान् सौनकाधिकं मारयतां कृत्स्नसुकृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभ: शुभपरिणामविशेषः । एवं च यं कञ्चन पदार्थं किञ्चित्- साधर्म्य द्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते ।। . न च "जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः । तथाहि तद्दर्शनाद् गुणानुरागितया भव्यानां बोधिलाभः, पूजाऽतिशयविलोकनाऽऽदिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयसप्राप्तिरिति । तथा च भगवान्१२पञ्चलिङ्गीकारः १. मीमांसाश्लोकवार्तिके सू. ४ श्लो. ८४ । २. 'गतार्थत्वात्' इति ह. रा. पुस्तकयोः पाठः । . ३. 'वेदोक्तविधान' इति ह. पुस्तके पाठः । ४. प्रतीकः-अवयवः । ५. कान्दिशीकः-भयद्रुतः । ६. सौनकः-हिसाजीवी । ७. 'साधर्म्यमात्रेणैव' । इति क. पुस्तके पाठः । ८. 'जिनभवन' इति क. पुस्तके पाठः । ९. सिद्धिगमनयोग्यानाम् । १०. बोधनं बोधिः समक्त्वं प्रेत्यजिनधर्मावाप्तिर्वा । ११. सम्यग्दर्शनादिका मोक्षपद्धतिः । १२. श्रीजिनपतिसूरिः । स्याद्वादमञ्जरी L istanAAAAA६७)