________________
कारणं, धर्मस्तु तत्कार्यमिति 'पराभिप्रायः; न चायं निरपाय:२ । यतो यद् यस्यान्वयव्यतिरेकावनुविधत्ते तत् तस्य कार्यम्; यथा मृत्पिण्डादेर्घटादिः । न च धर्मो हिंसात एव भवतीति प्रातीतिकम् । तपोविधानदानध्यानादीनां तदकारणत्व प्रसङ्गात् ।
अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः, किन्तु विशिष्टामेव । विशिष्टा च सैव-या वेदविहिता इति चेत्-ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरणाऽभावेन, मरणेऽपि तेषामार्तध्यानाऽभावात् सुगतिलाभेन वा ? । नाद्यः पक्षः-प्राणत्यागस्य तेषां साक्षादवेक्ष्यमाणत्वात् । न द्वितीयःपरचेतोवृत्तीनां दुर्लक्षतयाऽऽर्तध्यानाऽभावस्य वाङ्मात्रत्वात्। प्रत्युत हा ! कष्टमस्तिन कोऽपि कारुणिकः शरणम्, इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां "लिङ्गानां दर्शनाद् दुर्ध्यानस्य स्पष्टमेव निष्टश्यमानत्वात् । ... अथेत्थमाचक्षीथा:-यथा अयःपिण्डो गुरुतया मज्जनात्मकोऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलोपरि प्लवते, "यथा च मारणात्मकमपि विषं मन्त्रादिसंस्कारविशिष्टं सद्गुणाय जायते, यथा वा दहनस्वभावोऽप्यनि: सत्यादिप्रभावप्रतिहतशक्तिः सन् नहि दहति । एवं मन्त्रादिविधिसंस्काराद् न खलु वेदविहिता हिंसा दोषपोषाय । न च तस्याः कुत्सितत्वं शङ्कनीयम् । तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति तदेतद् न दक्षाणां क्षमते क्षोदम् । "वैधयेण दृष्टान्तानामसाधकतमत्वात् । अयःपिण्डादयो हि पत्रादिभावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकमन्त्रसंस्कार-विधिनापि विशस्यमानानां पशूनां काचिद् “वेदनाऽनुत्पादादिरूपा भावाऽन्तरापत्तिः प्रतीयते ।
१. वादिनोऽभिप्राय: । २. निरपाय:-निर्बाधः ।... ३. 'नः' इति घ. क. ख. पुस्तकेषु पाठः । ४. “लिङ्गानाम्' इति घ. पुस्तके नास्ति । ५. 'यथाच' इत्यारभ्य ‘जायते' इत्यन्तं रा. पुस्तके नास्ति । ६. दोषाणां पोषणायेत्यर्थः । ७. 'वैषम्येण' इति घ. रा. ह. पुस्तकेषु पाठः । ८. 'वेदनानुदयादि' इति क. पुस्तके पाठः । ( ६६
u rukkuarius स्याद्वादमञ्जरी