________________
प्रीतिसंपादकत्वात्, तथाविधपूजोपचारवत् । न चं तत्प्रीतिसंपादकत्वमसिद्धम्ः 'कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्ट्यादिफले यः खल्वव्यभिचारः, स तत्प्रीणितदेवताविशेषाऽनुग्रहहेतुकः । एवं त्रिपुरार्णववर्णितच्छगल जाङ्गल होमात् परराष्ट्रवंशीकृतिरपि तदनुकूलितदैवतप्रसाद- संपाद्या । अतिथिप्रीतिस्तु मधुपर्कसंस्कारादिसमास्वादजा प्रत्यक्षोपलक्ष्यैव । पितृणामपि तत्तदुपयाचितश्रद्धादिविधानेन प्रीणितात्मनां स्वसन्तानवृद्धिविधानं साक्षादेव वीक्ष्यते । आगमश्चात्र प्रमाणम्; स च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधादि विधानाभिधायकः प्रतीत एव । अतिथिविषयस्तु'महोशंवा महाजंवा श्रोत्रियायोपकल्पयेत् ।।' इत्यादिः । पितृप्रीत्यर्थस्तु-'द्वौ
मासौंमत्स्यमांसेन त्रीन्मासान्हारिणेनतु । औरभ्रेणाथ चतुरःशाकुनेनेह पञ्च . तु ।।१।। इत्यादः । . . . ..... ___ एवं पराभिप्रायं हृदि संप्रधार्याऽऽचार्यः प्रतिविधत्ते-न धर्मत्यादि; विहितापिवेदप्रतिपादितापि; आस्तां तावदविहिता । हिंसा-प्राणिप्राणव्यपरोपणरूपा । न धर्महेतुः-न धर्मानुबन्धनिबन्धनम्। यतोऽत्र प्रकट एव स्ववचनविरोधः । तथाहि"हिंसा चेद्-धर्महेतुः कथम्' ? 'धर्महेतुश्चेद् हिंसा कंथम्' ? '१°श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्' इत्यादिः । न हि भवति माता च, वन्ध्या चेति । हिंसा
१. कारीरी-एतत्संज्ञिकेष्टिः । तस्याश्च फलं वृष्टिः । कं जलमृच्छतीति कारो जलदस्तमीरयति
प्रेरयतीति कारीरीति कारीरीशब्दस्य व्यत्पत्तिः । . . २. त्रिपुरार्णवो-मन्त्रशास्त्रविषयको निबन्धः । ३. छगलो मेषः । ४. जाङ्गलं-हरिणमांसम् । ५. दधिमधुसंयुक्तः पूजाविशेषः । ६.. 'एवं पितृणाम्' इति क. पुस्तके पाठ: । ७. याज्ञवल्क्यस्मृतिः-आचाराध्यायः श्लो. १०९ । ८. मनुस्मतिः अ. ३ श्लो. २६८ तदने-'षण्मासांश्छागमांसेन पार्षतेन हि सप्त वै । अष्टावेणस्य
मांसेन रौरवेण नवैव तु । २६९ । दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मस्य मांसेन मासानेकादशैव तु । २७० । संवत्सरं तु गव्येन पयसा पायसेन वा। वार्धाणस्य च
मांसेन तृप्तिादशवार्षिकी ।। २७१ ।।' ९. 'प्रकटतः' इति क. पुस्तके पाठः । १०. 'श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवोपधारयेत्' । इति चाणक्यराजनीतिशास्त्रे अ. १ श्लो. ७ । (स्याद्वादमञ्जरी
६५)