________________
ऐन्द्रियकत्वादित्युक्ते, तथैव सामान्येन व्यभिचारे चोदिते, यदि ब्रूयाद्-युक्तं यत् सामान्यमैन्द्रियकं नित्यम्, तद्धि सर्वगतम्, असर्वगतस्तु शब्द इति । तदिदं शब्देऽनित्यत्वलक्षणपूर्वप्रतिज्ञातः-प्रतिज्ञान्तरमसर्वगतः शब्द इति निग्रहस्थानम् । अनया दिशा शेषाण्यपि विंशति यानि । इह तु न लिखितानि, पूर्वहेतोरेव । इत्येवं मायाशब्देनात्र छलदित्रयं सूचितम् । तदेवं परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतो अक्षपादर्षेर्वैराग्यव्यावर्णनं, तमसः प्रकाशात्मकत्वप्रख्यापनमिव कथमिव नोपहसनीयम् ? इति काव्यार्थः ।।१०।।
अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरःसरं निरस्यनाह
न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । . स्वपुत्रघाताद् नृपतित्वलिप्सा स ब्रह्मचारी स्फुरितं परेषाम् ।।११।।
इह खल्वचि मार्गप्रतिपक्ष धूममार्गाश्रिता जैमिनीया इत्थमाचक्षते- या हिंसा "ग़ााद्, व्यसनितया वा क्रियते; सैवाऽधर्माऽनुबन्धहेतुः । प्रमादसंपादितत्वात् । सौनिक लुब्धका-दीनामिव । वेदविहिता तुहिंसा-प्रत्युत धर्महेतुः । देवतातिथिपितॄणां
१. जैमिनेरभिमतम् । २.. 'अनियोतिरह: शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।
इत्यर्चिार्गः: । अयमेवोत्तरमार्ग इत्यभिधीयते । भ.गी.अ.८श्लो. २४ . ३. 'धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्यनिवर्तते ।।
इति धूममार्गः । अयमेव दक्षिणमार्ग इत्यप्यभिधीयते । भ.गी.अ.८ श्लो. २५ ४. 'या' इति ख. पुस्तके नास्ति । ५. गाद्धर्यात्-लोभात् । ६. सैनिकः-सूना हिंसा तया चरतीति सैनिको हिंसाजीवीत्यर्थः । ७. लुब्धक:-व्याधः ।
(६४Hindi
स्याद्वादमञ्जरी