________________
वैधर्म्यसमा जातिर्भवति;-अनित्यः शब्दः, -कृतकत्वाद् घटवदित्यत्रैव प्रयोगे, 'स एव प्रतिहेतुवैधर्म्येण प्रयुज्यते-नित्यः शब्दो निरवयवत्वात् । अनित्यं हि सावयवं दृष्टम् । घटादीति । न चास्ति विशेषहेतुः घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैधर्म्याद् निरवयवत्वाद् नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम् उत्कर्षापकर्षसमे जाती भवतः तत्रैव प्रयोगे, दृष्टान्तधर्मं कञ्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुङ्क्ते यदि घटवत् कृतकत्वादनित्यः शब्दः घटवदेव मूर्तोऽपि भवतु । न चेद् मूर्त:, घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्- अश्रावणो दृष्टः, एवं शब्दोंऽप्यस्तु ।. नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्येताश्चतस्त्रो दिङ्मात्रदर्शनार्थं जातय उक्ताः । एवं शेषा अपि विंशतिरक्ष 'पाद- शास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः ।
तथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । तत्र विप्रतिपत्तिःसाधनाऽऽभासे साधनबुद्धिः, दूषणाऽऽभासे च दूषणबुद्धिरिति । अप्रतिपत्तिः साधनस्याऽदूषणं, दूषणस्य चाऽनुद्धरणम् । तञ्च निग्रहस्थानं द्वाविंशतिविधम्; तद्यथा-१ प्रतिज्ञाहानिः २ प्रतिज्ञान्तरम् ३ प्रतिज्ञाविरोधः ४ प्रतिज्ञासंन्यासः - ५ हेत्वन्तरम् ६ अर्थान्तरम् ७ निरर्थकम् ८ अविज्ञातार्थम् ९ अपार्थकम् १० अप्राप्तकालम् ११ न्यूनम् १२ अधिकम् १३ पुनरूक्तम् १४ अननुभाषणम् १५ अज्ञानम् १६ अप्रतिभा १७ विक्षेपः १८ मतानुज्ञा १९ पर्यनुयोज्योपेक्षणम् २० निरनुयोज्यानुयोगः २१ अपसिद्धान्तः २२ हेत्वाभासाश्च ।
तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानम् । यथा नित्यः शब्दः ऐन्द्रियकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यमैन्द्रियकमपि नित्यं दृष्टमिति तावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद् घटोऽपि नित्यो भवत्विति, स एवं ब्रुवाणः शब्दाऽनित्यत्वप्रतिज्ञां जह्यात् । प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम - निग्रहस्थानं भवति । अनित्यः शब्दः
१. निखयवत्वस्वरूपः ।
२. गौतमसूत्र ५ । २ ।१ ।
३. 'तथा च' इति घ. पुस्तके पाठः ।
स्याद्वादमञ्जरी
ॐ ॐ ॐ ॐ ॐ ६३