________________
तदेवं प्रमाणादिषोडशपदार्थानामविशिष्टेऽपि तत्त्वाभासत्वे प्रकटकपटनाटकसूत्र धाराणां त्रयाणामेव छलजातिनिग्रहस्थानानां मायोपदेशादिति पदेनोपक्षेपः कृतः । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः-छलम् । तत् त्रिधा-वाक्छलं, सामान्यछलम् उपचारछलं चेति । तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थान्तरकल्पनया तनिषेधो वाक्छलम्; यथा नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते, परः संख्यामारोप्य निषेधति-कुतोऽस्य नव कम्बलाः ?, इति । संभावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधःसामान्यछलम्; यथा-अहो ! नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे, कश्चिद् वदति-सम्भवति ब्राह्मणे, विद्याचरणसम्पदिति; तत् छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वनभियुङ्क्ते यदि ब्राह्मणे विद्याचरणसंपद् भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्-उपचारछलम् । यथा-मञ्चाः क्रोशन्तीत्युक्ते, परः प्रत्यवतिष्ठते- कथमचेतना मञ्चाः क्रोशन्ति ?, *मञ्चस्थाः पुरुषाः क्रोशन्तीति ।
तथा सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते, झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबम्बनप्रायं किमपि प्रत्यवस्थानं-जातिः, दूषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन; यथा - "साधर्म्यवैधोत्कर्षाऽपकर्षवाऽवर्ण्यवि- कल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वार्थापत्त्य-विशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यात्यकार्यसमाः' ।
तत्र साधर्म्यण प्रत्यवस्थानं-साधर्म्यसमा जातिर्भवति;-अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्,-नित्यःशब्दो, निरवयवत्वाद्, आकाशवत् । न चास्ति विशेषहेतुः-घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न घुनराकाशसाधाद् निरवयवत्वाद् नित्य इति । वैधयेण प्रत्यवस्थानं
१. 'अभिप्रेतादर्थात्' इति रा. पुस्तके पाठः । २. 'यथा' शब्दो घ. पुस्तके नास्ति । ३. 'मञ्चस्थास्तु' इति क. घ. पुस्तकयोः पाठः ४. 'प्रतिबन्धनप्रायम्' इति क. पुस्तके पाठः । ५. गो. सू. ५।११। (६२inutana
स्याद्वादमञ्जरी