________________
तद्ज्ञानमेव युक्तं, न चेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति, स तत्करणम्; न चेन्द्रियसन्निकर्षसामग्नयादी. सत्यपि ज्ञानाऽभावेऽर्थोपलम्भः । साधकतमं हि करणम्; अव्यवहितफलं च तदिष्यते; व्यवहितफलस्याऽपि करणत्वे दुग्धभोजनादेरपि तथाप्रसङ्गः । तन्न ज्ञानादन्यत्र प्रमाणत्वम्; अन्यत्रोपचारात्। यदपि न्यायभूषणसूत्रकारेणोक्तम्-''सम्यगनुभवसाधनं प्रमाणम्' इति । तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव प्रमाणत्वं सिध्यति । तथाऽप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैव; इति न तत् सम्यग् लक्षणम् । 'स्वपरव्यवसायि ज्ञानं प्रमाणम्' इति तु तात्त्विकं लक्षणम् । ..
प्रमेयमपि तै;-आत्मशरीरेन्द्रियाऽर्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाऽपवर्गभेदाद् द्वादशविधमुक्तम् । तच्च न सम्यग्; यतः शरीरेन्द्रियबुद्धिमनःप्रवृत्तिदोषफलदुःखानाम्आत्मन्येवाऽन्तर्भावो युक्तः; संसारिण आत्मनः कथञ्चित् तदविष्वाभूतत्वात् । आत्मा च प्रमेय एव न भवति, तस्य प्रमातृत्वात् । इन्द्रियबुद्धिमनसां तु करणत्वात् प्रमेयत्वाऽभावः। दोषास्तु-रागद्वेषमोहाः,ते च प्रवृत्तेर्न पृथग्भवितुमर्हन्ति; वाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिविधस्यं तन्मते प्रवृत्तिशब्दवाच्यत्वात् रागदिदोषाणां च- मनोव्यापारात्मकत्वात् । दुःखस्य शब्दादीनामिन्द्रियार्थानां च फल एवान्तर्भाव: 'प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम्' इति जयन्तवचनात् । प्रेत्यभावाऽपवर्गयो:पुनरात्मन एव परिणामाऽन्तराऽऽपत्तिरुपत्वाद्, न पार्थक्यमात्मनः सकाशादुचितम्; तदेवं द्वादशविधं प्रमेयंमिति वाग्विंस्तरमात्रम्; 'द्रव्यपर्यायात्मकं वस्तु प्रमेयम्' इति तु समीचीनं लक्षणम्; सर्पसंग्राहकत्वात् । एवं संशयादीनामपि तत्त्वाभासत्वं प्रेक्षावद्भिरनुपेक्षणीयम्; अन तु-प्रतीतत्वाद्, ग्रन्थगौरवभयाञ्च न प्रपञ्चितम् । “न्यक्षेण ह्यत्र न्यायशास्त्रमवतारणीयम्; तञ्चाऽवतार्यमाणं पृथग् ग्रन्थान्तरतामवगाहत इत्यास्ताम् । १. उपचारो लक्षणा । २. न्यायसारे भासर्वज्ञप्रणीते, प्रथमपरिच्छेदे प्रथमसूत्रम् । ३. प्रमाणनयतत्त्वालोकालङ्कारे परिच्छेद १ सूत्र २ । ४. 'अपि' इति क. पुस्तके नास्ति । ५. पूर्णत्वेन ।। स्याद्वादमञ्जरी
६१