________________
"दुःशिक्षितकुतर्काशलेशवाचालिताऽऽननाः । शक्या: किमन्यथा जेतुं वितण्डाऽऽटोपमण्डिताः ? ।।१।। गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ।।२।।'
कारुणिकत्वं च वैराग्याद् न भिद्यते, ततो युक्तमुक्तम्-अहो ! विरक्त इति स्तुतिकारेणोपहासवचनम् ।
अथ मायोपदेशादिति सूचनासूत्रं वितन्यते,- अक्षपादमते किल षोडशपदार्थाः; *प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ताऽवयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः इति वचनात् । न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निःश्रेयसाऽवाप्तिहेतुः । न ह्येकेनेव क्रियाविरहितेन ज्ञानमात्रेण-मुक्तियुक्तिमती; असमग्रसामग्रीकत्वात्; विघटितैकचक्ररथेन मनीषितनगरप्राप्तिवत् ।
न च वाच्यं-न खलु वयं क्रियां प्रतिक्षिपामः, किन्तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति ज्ञापनार्थ-तत्त्वज्ञानाद् निःश्रेयसाधिगम इति ब्रूम इति; म ह्यमीषां संहते अपि ज्ञानक्रिय मुक्तिप्राप्तिहेतुभूते; वितथत्वात् तज्ञानक्रिययोः । न च वितथत्वमसिद्धम्; विचार्यमाणानां षोडशानामपि तत्त्वाऽऽभासत्वात् । तथाहि तैः प्रमाणस्य तावद् लक्षणमित्थं सूत्रितम्
५अर्थोपलब्धिहेतुः प्रमाणम्' इति । एतञ्च न विचारसहम्; यतोऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्र, तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः। अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं, तर्हि १. 'कुशिक्षित' इति घ. पुस्तके पाठः । २. 'उक्तम्' इति क. पुस्कते नास्ति ।। ३. गौतमसूत्र १।१।१। ४. 'आसूत्रितम्' इति क. पुस्तके पाठः । ५. एतदर्थकं गौतमसूत्र भाष्ये २।१।११ ।
( ६०
i ndian
स्याद्वादमञ्जरी