________________
"लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनाऽमहात्मना। छलजातिप्रधानो यः स विवाद इति स्मृतः' ।।१।। .
तेन ग्रहिल इव-ग्रहगृहीत इव, तत्र । यथा-ग्रहाद्यपस्मारपरवशः पुरुषो यत्किञ्चनप्रलापी स्याद् एवमयमपि जन इति भावः ।
तथा, वितण्डा-प्रतिपक्षस्थापनाहीनं वाक्यमः; वितण्ड्यते आहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्तेः; 'अभ्युपेत्य' पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते' इति न्यायवार्तिकम् । वस्तुतस्त्वपरामृष्टंतत्त्वाऽतत्त्वविचारं 'मोखर्यं वितण्डा; तत्र यत्पाण्डित्यम्-अविकलं कौशलं, तेन कण्डूलं मुखं लपनं यस्य स तथा तस्मिन् । कण्डू:-खजूं:, कण्डूरस्यास्तीति कण्डूलम्, "सिध्मादित्वाद् मत्वर्थीयो लप्रत्ययः । यथा-किलाऽन्तरुत्पन्नकृमिकुलजनितां कण्डूति निरोद्धमपारयन् पुरुषो व्याकुलतां कलयति, एवं तन्मुखमपि वितण्डापाण्डित्येनाऽसंबद्धप्रलापचापलमाकलयत् कण्डूलमित्युपचर्यते । .... . एवं च स्वरसत एव स्वस्वाभिमत व्यवस्थापनाविसंस्थुलो वैतण्डिकलोकः, तत्र च तत्परमाप्तभूतपुरुषविशेषपरिकल्पितपरवञ्चनप्रचुरवचनरचनोपदेशश्चेत् सहायः समजनि, तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इव कृतो घृताऽऽहुतिप्रक्षेप इति; तैश्च भवाभिनन्दिभिर्वादिभिरेतादृशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितम् । तथा चाहुः ।
१. श्रीहरिभद्रसूरिकृते १२ अष्टके श्लो. ४ । २. न्यायवार्तिक पृ. १५ पं. ४ .सूत्र १ अध्याय १ आह्निक १ । ... ३. 'हि' इत रा. क. ख. घ. ह. पुस्तकेष्वधिकम् । ४. 'तथाऽपरामृष्ट' इति क. पुस्तके पाठः । ५. 'विचारमौखर्यम्' इति क. पुस्तके पाठः । ६. 'कण्डूलमिव' इत्यधिंक क. ख. घ. ह. पुस्तकेषु । ७. 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः ' हैमसू. ७।२।२१। ८. 'स्वाभिमतमत' इति रा. पुस्तके पाठः । ९. भवाभिनन्दी-असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधिदुग्धम्बुताम्बूलपुण्यपण्याङ्गनादिभिः ।।
इत्यादिवचनैः संसाराभिनन्दनशीलः ।। स्याद्वादमञ्जरीkaki
५९)