________________
वैशेषिकनैयायिकयोः प्राय: समानतन्त्रत्वादौलुक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम्। पदार्थेषु च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरूषार्थं प्रत्यसाधनकतमत्वे वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह
स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन् । अहो विरक्तो मुनिरन्यदीयः ||१०||
अन्ये-अविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामानः परे, तेषामयं शास्तृत्वेन सम्बन्धी अन्यदीयो मुनिः अक्षपाद ऋषिः, अहो ! विरक्त:-अहो ! वैराग्यवान् । अहो इत्युपहासगर्भमाश्चर्यं सूचयति । अन्यदीय इत्यत्र 'ईयकारके' (हैमसू. ३।२।१२१ ।।) इति दोऽन्तः । किं कुर्वनित्याह-परमर्म भिन्दन्-'जातावेकवचनप्रयोगात् परमर्माणि व्यथयन् 'बहुभिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणि' इति परिभाषिकी संज्ञा, तत उपचारात् साध्य स्वतत्त्वसाधनाऽव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि मर्मेव मर्म । कस्मात् तद्भिन्दन् ? मायोपदेशाद्धेतोः; माया-परवञ्चनम्, तस्या उपदेशःछलजातिनिग्रहस्थानलक्षणपदार्थत्रयप्ररूपणद्वारेण शिष्येभ्यः प्रतिपादनं, तस्मात् 'गुणादस्त्रियां न वा' (हेमसू. २।२।७७।।) इत्यनेन हेतौ तृतीयाप्रसङ्गे-पञ्चमी । - कस्मिन् विषये मायामयमुपदिष्टवान् ?, इत्याह-अस्मिन्-प्रत्यक्षोपलक्ष्यमाणे, जनेतत्त्वाऽतत्त्वाविमर्शबहिर्मुखतया प्राकृतप्राये लोके । कथम्भूते ? स्वयम्-आत्मना परोपदेशनिरपेक्षमेव, विवादग्रहिले-विरुद्धः-परस्परलक्ष्यीकृतपक्षाधिक्षेपदक्षः, वादोवचनो-पन्यासो विवादः । तथा च भगवान् हरिभद्रसूरिः
१. 'एकवचनात्' इति क. घ. पुस्तकयोः पाठः ।। २. 'सतत्व' इति घ. पुस्तके पाठः ।
AAAAAAAAAAAAAAA स्याद्वादमञ्जरी