________________
तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यः, न व्यापकः । तथा च आत्मा व्यापको न भवति, चेतनत्वात्, यत्तु व्यापकं-न तत् चेतनम्, यथा व्योम, चेतनश्चात्मा तस्माद् न व्यापकः; अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टमसमयसाध्यकेवलिसमुद्धातदशायामार्हतानामपि
चतुर्दशरज्ज्वात्मकलोकव्यापित्वेनात्मनः सर्वव्यापकत्वम्, तत् कादाचित्कम् ; इति न तेन व्यभिचारः । स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशबिभीषिकाभ्यो भयम् । इति काव्यार्थः ॥९॥
१. समुद्धातः-हन् हिंसागत्योः । हननं घातः । सम् एकीभावे । उत् प्रांबल्ये । ततश्चैकीभावेन
प्राबल्येन च घातः समुद्धातः । अथ केन सहैकीभावगमनम् । उच्यते । यदाऽऽत्मा वेदनादि (वेदनाकषायमरण क्रियतेजसाहार के वलि के ति) अनुभवज्ञानपरिणतो बहून्वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति । आत्मप्रदेशैः सह संक्लिष्टान् सातयतीत्यर्थः । अतः प्राबल्येन घात. इति । भगवतीसूत्रे शतक १३ उद्देश १० अभयदेवीयटीकायाम् । केवलिसमुद्धातोऽष्टंसामयिकः । . तं च कुर्वन् केवली प्रथमसमये बाहुल्यतः स्वशरीरप्नमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति । द्वितीयसमये पूर्वापर दक्षिणोत्तरं वा कपाटम् । तृतीये मंथानम् चतुर्थेऽवकाशाऽन्तराणां पूरणम् । पञ्चमेऽवकाशाऽन्तराणां संहारम् । षष्ठे मंथः सप्तमे कपाटस्थः । अष्टमे स्वशरीरस्थो भवति । इत्यभिधानराजेन्द्रकोशे सप्तमभागे पृ. ४२९ । . केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणरज्जुरवगन्तव्या अधस्तादधोभागो ऽधोमुखमल्ल्कतुल्योऽधोमुखीकृत शरावसदृक्षाकार उपरि पुनः संपुटस्थितयोर्मल्लकयोशरावयोराकारमनुसरति लोकः । अयमर्थः । प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चास्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैाप्तः । प्रवचनसारोद्धार- टीकायां सिद्धसेनसूरिशेखरकृतायां द्वारं १४६ । अस्य सर्वस्य लोकस्य कलया भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ।।८।। सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ।।९।। प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ।।१०।। रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ।।११।। तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ।।१२।। भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ।।१३।। भवेद् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । धर्मोर्श्वभागादूर्ध्वाधः सप्तसप्तेति रज्जवः ।।१४ ।। उपाध्यायश्रीविनयविजयजीकृत लोकप्रकाशे २२ सर्गे ।। तत्त्वार्थाधिगमसूत्रे ३-६ । स्याद्वादमञ्जरी Annabis ५७)