________________
आकाशकालादिगात्मनां सर्वगतत्वं', परममहत्त्वं', सर्वसंयोगि- समानदेशत्वं चेत्युक्तत्वाद्मनसो वैधर्म्यात्, सर्वगतत्वेन प्रतिषेधनात्; अतो नात्मनः शरीरेऽनुप्रवेशाऽनुपपत्तिः, येन निरात्मकं तत् स्यात्, असर्वगतद्रव्यपरिमाण - लक्षणमूर्तत्वस्य मनोवत् प्रवेशाऽप्रतिबन्धकत्वात्, । रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुकादावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्राऽसौ प्रतिषिध्यत इति महञ्चित्रम् ।
अथाऽऽत्मनः कायपरिमाणत्वे - बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् ?। किं तत्परिमाणत्यागात्, तदपरित्यागाद् वा ? । परित्यागात् चेत्, तदा शरीरवत् तस्याऽनित्यत्वप्रसङ्गात्-परलोकाऽद्यभावाऽनुषङ्गः । अथाऽपरित्यागात् । तंत्र; पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तदयुक्तम्; युवशरीरपरिमाणाऽवस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशाऽसम्भवात् विफणाऽवस्थोत्पादे सर्पवत् इति कथं परलोकाभावोऽनुषज्यते; पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात् ।
४ अथात्मन: कायपरिमाणत्वे- तत्खण्डने 'खण्डनप्रसङ्गः, इतिचेत् कः किमाह ? शरीरस्य खण्डने कथञ्चित् तत्खण्डनस्येष्टत्वात्; शरीराऽसम्बद्धाऽऽत्मप्रदेशेभ्यो हि कतिपयाऽऽत्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानादात्मनः खण्डनम्; तच्चाऽत्र विद्यत एव। अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्याऽत्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवाऽनुप्रवेशात् । नचैकत्र सन्तानेऽनेक आत्मानः । अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात् । शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् ।
कथं खण्डितावयवयोः संघट्टनं पश्चाद् ? इति चेत्; एकान्तेन छेदाऽनभ्युपगमात्। पद्मनालतन्तुवत् छेदस्यापि स्वीकारात् । तथाभूताऽदृष्टवशात्
१. सर्वमूर्तसंयोगित्वम् ।
२. इयत्तारहितत्वम् ।
३. 'तत्' इति क पुस्तके नास्ति ।
४. 'अथ' इति ख. पुस्तके नास्ति ।
५. 'चैतत्खण्डन' इति क पुस्तके पाठः ।
५६ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी)