________________
सकृत्सर्वमूर्ताऽभिसम्बन्धार्हत्वात् इति ।यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यादिषु भेदोऽस्ति, तथापि नात्र सूक्ष्मेक्षिका चिन्त्या । प्रदेशेष्ववयवव्यवहारात्कार्यत्वं तु वक्ष्यामः ।
नन्वात्मनां कार्यत्वे घटादिवत्प्राक्प्रसिद्धसमानजातीयाऽवयवाऽऽरभ्यत्वप्रसक्तिः; अवयवा ह्यवयविनमारभन्ते, यथा-तन्तवः पटमिति चेत्, न वाच्यम् । न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगाऽऽरभ्यत्वं दृष्टम्; कुम्भकाराऽऽदिव्यापाराऽन्विताद् मृत्पिण्डात् प्रथममेव पृथुबुनोदराद्याकारस्याऽस्योत्पत्तिप्रतीतेः । द्रव्यस्य हि पूर्वाऽकारपरित्यागेनोत्तरकारपरिणाम: कार्यत्वम् । तञ्च बहिरिवान्तरप्यनुभूयत एव । ततश्चात्माऽपि स्यात् कार्यः । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः; काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावप्रसङ्गात्; प्रमाणबाधनमुभयत्राऽपि तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानांभावोऽनुषज्यते; कथञ्चिदनित्यत्वे सत्येवाऽस्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरुपम्; तच्चैकान्तनित्यत्वे कथमुपपद्यते ? अवस्थाभेदात्; अन्या ह्यनुभवाऽवस्था, अन्या च स्मरणावस्था; अवस्थाभेदे चाऽवस्थावतोऽपि भेदादेकरूपत्वक्षतिः कथञ्चिदनित्यत्वं युक्त्यायातं केन वार्यताम् ? । .
अथाऽऽत्मनः शरीरपरिणामत्वे मूर्तत्वानुषङ्गात् शरीरेऽनुप्रवेशो न स्याद्; मूर्ते मूर्तस्यानुप्रवेशाविरोधात्; ततो निरात्मकमेवाखिलं शरीरं प्राप्नोतीतिचेत्, किमिदं मूर्तत्वं नाम ?-असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा ? । तत्र नाऽऽद्यः पक्षो दोषाय, संमतत्वात्। द्वितीयस्त्वयुक्तः-५व्याप्त्यभावात्; नहि यदसर्वगतं तद् नियमेन रुपादिमदित्यविनाभावोऽस्ति; मनसोऽसर्वगतत्वेऽपिभवन्मते तदसम्भवात् । १. तत्त्वार्थसूत्रोपरि श्रीसमन्तभद्रस्वामिविरचितं ८४००० लोकपरिमितं गन्धहस्तिसंज्ञकं महाभाष्यम्।
अस्य मङ्गलाचरणं देवागमस्तोत्रसंज्ञकमाप्तमीमांसासंज्ञकं सपादशतलोकपरिमितमस्ति । अत्र मङ्गलाचरणे श्रीमदकलंकदेवनिर्मिता अष्टशतश्लोकप्रमाणा तथा श्रीविद्यानन्दिस्वामिविरचिताष्टसहस्रश्लोकात्मिका चेति व्याख्याद्वयमस्ति भाष्यं त्वधुना नोपलभ्यते । २. सूक्ष्मविचारः । ३. 'अवस्थाभेदेन' इति क. पुस्तके पाठः । ४. 'क्षते' इति रा. ह. क. घ. पुस्तकेषु पाठः । ५. 'व्याप्त्यभावात्' इति रा. पुस्तके नास्ति । स्याद्वादमञ्जरीdaddddddakkad )