________________
अथाऽऽत्मनो व्यापकत्वाऽभावे दिग्देशाऽन्तरवर्तिपरमाणुभिर्युगपत्संयोगाऽभावाद्आद्यकर्माऽभावः, तदभावाद् - अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य, तेन 'तत्सम्बन्धस्य- चाऽभावाद्-अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम्; यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमाऽसम्भवात्; अयस्कान्तं प्रतिअयसस्तेनाऽ-संयुक्तस्याऽऽप्याकर्षणोलब्धेः । अथासंयुक्तस्याप्याकर्षणेतच्छरीराऽऽरम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ? इति चेत्, संयुक्तस्याऽऽप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनाऽऽनुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् ।
अथाऽस्तु यथाकथञ्चिच्छरीरोत्पत्तिः; तथापि सावयवं शरीरं प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात्; तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः, कार्यत्वे चाऽसौविजातीयैः सजातीयैर्वा कारणैरारभ्येत ? ; न तावद्विजातीयैः-तैषामनारम्भकत्वात्; न हि तन्तवो घटमारभन्ते न च सजातीयैः । यत आत्मत्वाभिसम्बन्धादेव तेषां कारणानां सजातीयत्वम्; पार्थिवादिपरमाणूनां विजातीयत्वात्; तथा चाऽऽत्मभिरात्मा आरभ्यत इत्यायातम् । तच्चायुक्तम् एकत्र शरीरेऽनेकात्मनामात्माऽऽरम्भकाणामसम्भवात्; सम्भवे वा प्रतिसन्धानाऽनुपपत्तिः । न हि अन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति ; अतिप्रसङ्गात् । तदारभ्यत्वे॰चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात्; तस्माद् व्यापक एवात्मा युज्यते, कायप्रमाणतायामुक्तदोषसद्भावादितिचेत् । न; सावयवत्वाऽकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । तत्र सावयवत्वं तावद्असंख्येयप्रदेशात्मकत्वात् । तथा च 'द्रव्यालङ्कारकार:- 'आकाशोऽपि सदेशः,
१. 'तत्संबंधस्याभावात्' इति क पुस्तके पाठः ।
२. 'नियमाभावातू' इति ख. पुस्तके पाठः ।
३. 'इति' पदमधिकं क पुस्तके ।
४. 'वास्य' इति घ. पुस्तके पाठः ।
५. 'द्रव्यालंकारकारौ' इति रा. ह. क. ख. पुस्तकेषु पाठः ।
५४ क
-
स्याद्वादमञ्जरी